१६० सिद्धान्तकौमुदीसहिता [इदन्त लुक्श्लुलुप्शब्दैः कृत प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञ स्यात् । २६१ । षड्भ्यो लुकू । (७-१-२२) षड्भ्य परयोजैश्शसोर्लेक् स्यात् । २६२ । प्रत्ययलोपे प्रत्ययलक्षणम् । (१-१-६२) प्रल्यये लुप्तेऽपि तदाश्रित कार्य स्यात् । इति * जसि च ' (मून् २४१) इति गुणे प्रामे । २६३ । न लुमताङ्गस्य ।। (१-१-६३) लुक् श्लु लुप् एते लुमन्त । लुमता शब्देन लुझे तन्निमित्तमङ्गकार्य न स्यात् । कति । कति । काताभ । कतिभ्य । कतिभ्य । प्रतीयते । एव सति एकस्यैव प्रत्ययादर्शनस्य तिस्रोऽपि सञ्ज्ञास्स्यु । ततश्च हन्तीत्यत्र शब्लुकि 'श्रंटौं” इति द्वित्व स्यात्। जुहोतीत्यत्न श्रृंठौं सति ' उतो वृद्धिर्छकि हलि' इति वृद्धिस्स्यात् । अतो नैवमर्थे । किन्तु लुक्श्ळुळुप्प् इत्यनुवर्तते । ततश्च लुक् श्ळु लुप् इत्युच्चार्य विहित प्रत्यय स्यादर्शन यथासख्यपरिभाषया क्रमात् छुगादिसञ्ज्ञ स्यादिति ल+यते । अतो नोक्तसङ्कर इत्याभिप्रेत्य आह । लुक्श्लुलुप्शब्दैरित्यादिना ॥ *फले लुक्, जुहोत्यादिभ्य श्ळु , जनपदे लुप्? इत्यादिविधिप्रदेशेषु *अख्य सूत्रस्य शाटक वयः ? इतिवद्भाविसञ्ज्ञाविज्ञानात् नान्येोन्याश्रय । तदेव कतिशब्दस्य षट्सञ्ज्ञायाम् ॥ षड्भ्यो लुक् ॥ जश्शसोरित्यनुवर्तते । तदाह । षड्भ्यः परयोरित्यादिना ॥ जासि लुप्तेऽपि * जासि च' इति गुणमाशङ्कितुमाह । प्रत्ययलोपे प्रत्ययलक्षणम् । प्रत्यय लक्षण निमित्त यस्य तत् प्रत्ययलक्षणम् । प्रत्ययस्य लेपे सति प्रत्ययनिमित्तक कार्य स्यादित्यर्थ । फलितमाह । प्रत्यये लुसेऽपीत्यादिना । स्थानिवद्रावादेव सिद्धे अल्विध्यर्थमिद सूत्रम् । यत्र प्रत्ययस्यासाधारण रूप प्रयोजक तदेव कार्य प्रत्ययलेपे सति भवतीति नियमार्थञ्जेति भाष्यादिषु स्पष्टम् । इति जलि चेतीति । अनेन सूत्रेण लुप्त प्रत्ययमाश्रित्य *जसि च? इति गुणे प्राप्ते इत्यथै । न लुमताङ्गस्य ॥ प्रत्ययलेोमे प्रत्ययलक्षणमित्यनुवर्तते ॥ ळु इत्येकदेशोऽस्यास्तीति छुमान् । छुक्शब्द शूळुशब्द लुप्शब्दश्च । तेन शब्दन प्रत्ययलेपे विहिते सति प्रत्ययनिमित्तकमङ्गकार्य न स्यादित्यर्थ । तदाह । लुक्श्लु इत्यादिना ॥ अङ्गस्य इत्यनुत्तौ पञ्च सप्त इत्यादौ * सुप्तिडन्तम्’ इति पदसज्ञा न स्यात् । जश्शसोर्छेका लुप्तत्वात्। ततश्च “न लेप प्रातिपदिकान्तस्य” इति नलोपो न स्यात् । अतोऽङ्गस्येत्युत्तम् । एवञ्च जसि छुका छुसे प्रत्ययलक्षणाभावात् * जसि च ? इति गुणो न भवति इत्यभिप्रेत्योदाहरति । कतीति ॥ प्रसङ्गादाह । अस्मदिति ॥ त्रिष्विति । पुस्त्रीनपुसकेष्वित्यर्थ । सरूपाः इति। समानानि रूपाणि येषामति विग्रह ।
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/167
एतत् पृष्ठम् अपरिष्कृतम् अस्ति