१७८ सिद्धान्तकौमुदीसहिता [ऋदन्त ॥ अथ ऋदन्तप्रकरणम् ॥ धाता । हे धातः । धातारौ । धातार ।। *ऋवर्णान्नस्य णत्वं वाच्यम् ? (वा ४९६९) । धातॄणामित्यादि । एव नप्त्वाद्य । उद्भातारौ । पिता । व्युत्पत्तिपक्षे नष्त्रादिग्रहणस्य नियमार्थत्वान्न दीर्घ. । पितरौ । पितर. । पितरम् । पितरौ । शेष धातृवत्। एवं जामातृभ्रात्रादय । ना। नरौ। नर । हे नः ॥ अथ ऋदन्ता निरूप्यन्ते । धातेति ॥ * डु वाञ् धारणपोषणयो ? । तत्र तृन् तृज्वा स्याताम् । कोटुशब्दवदनड्दीर्घसुलेपनलोपा । हे धातरिति ॥ * ऋदुशनस् ’ इत्यत्रासम्बुद्धावल्यनुवृतेनॉनडे । 'ऋतो डि ' इति गुण अकार , रपरत्व, हल्डयादलोप , विसर्ग । * अप्तृन् ’ इति दीर्घस्तु न। असम्बुद्धविल्यनुवृत्ते । धाताराविति ॥ डिसर्वनामस्थानयो ‘ऋतो डि' इति गुण अकार , रपरत्वम्, ‘अप्तृन्’ इति दीर्घश्च । धातार । वातारम् । वातारौ । शास पूर्वसवर्णदीर्घ ऋकार , नत्वम् । धातृन् । टा यण् । धात्रा। डे यण् । धात्रे। डालिडसो * ऋत उत्', रपरत्वमू, सलोप , विसर्ग । धातु । धातु । धात्रो । धाह्रो । आमि * हृस्वनद्याप ' इति नुट्। 'नाम' इति दीर्घ । नकारस्य रेफषकाराभ्या परत्वाभावादप्रासे णत्वे । ऋवणन्नस्य णत्वं वाच्यम्॥ ऋवर्णात् परस्येत्यर्थं । इदन्तु वार्तिक णत्वविधायकसूत्राणा सर्वेषा शषभूतम् । डौ “ ऋतो डि ' इति गुण अकार, रपरत्वम् । धातरि । धातृषु । नच धातृशब्दस्य हिरण्यगभैसञ्ज्ञाशब्दत्वात् औणादिकशासक्षदादितृन्तृजन्तत्वादिह कथम् * अप्तृन्’ इति दीर्घ ॥ औणादिकतृन्तृजन्तेषु नप्त्रादिसप्तानामेव दीर्घ इति नियमादिति वाच्यम् । धाञ्धातो शसिक्षदादित्वकल्पनाया प्रमाणाभावेन धातृशब्दस्य औष्णादिकत्वाभावादिति भाव । एव नप्त्रादयः, इति ॥ नप्तृ, नेष्टृ, त्वष्ट्र, क्षत्तृ, होतु, पोतु, प्रशास्तृ, शब्दा धातृशब्दवादित्यर्थे ॥ उद्भातृशब्दस्य औणादिकतृन्तुजन्तस्य नप्त्रादिष्वनन्तर्भावेऽपि समर्थसूत्रे उद्भातार इति भाष्यप्रयोगादेव दीर्घ इत्युक्त प्राक् । तदेतत् स्मारयति । उद्भाताराविति ॥ पितेति ॥ धातृवदनडादि। सर्वनामस्थाने तु ' ऋतो डि ' इति गुण अकार, रपरत्वम्। 'अप्तृन् इति दीर्धेस्तु नेल्याह । व्युत्पत्तीति ॥ पातीति पिता । तृच्प्रत्यय, इष्टु, आकारलोपथेति व्युत्पत्तिबद्ध्या । अव्युत्पत्तिपक्षे तु अप्तृन्तृजादिष्वनन्तर्भावात् दीर्घशङ्कैव नास्तीति भाव । पितरौ-पितर । पितरम्-पितरौ-पितॄन्, इल्यादि धातृवत् । एवं जामातृभ्रात्रादयः इति । उणादिषु 'नप्तृ, नेछु, त्वष्ट्र, होतृ, पोतृ, भ्रातृ, जामातृ, मातृ, पितृ, दुहितृ' इतिसूत्रे पितृजामातृभ्रातृशब्दा व्युत्पादिता । तत्र पितृशब्दस्य व्युत्पत्तिरुक्ता। भ्राजेस्तृनि, तृच, वा जलोप । भ्राता। जाया मातीति जामाता। तृन्प्रत्यय तृज्वा यालोपश्च। अनयोरप्यौणादिकयोर्नप्त्रादिष्वनन्तर्भावात् न दीर्घ इत्यर्थे । आदिना मन्तृ, हन्तृ इत्यनयो ग्रहणम् ॥
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/185
एतत् पृष्ठम् अपरिष्कृतम् अस्ति