पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति


तकारान्तप्रकरणम्]
२८९
बालमनोरमा ।

षाष्टद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्त. ।

४२७ । नाभ्यस्ताच्छतुः । (७-१-७८)

अभ्यस्तात्परस्य शतुर्नुम् न स्यात् । ददत्-ददत्, ददतैौ, ददत ।

४२८ ॥ जक्षित्याद्यः षट् । (६-१-६)

षड् धातवोऽन्ये जक्षितिश्च सप्तम एतेऽभ्यस्तसंज्ञा स्यु । जक्षत् जक्षद्, जक्षतौ, जक्षत । एव जाग्रत्, दरिद्रत्, शासत्, चकासत् । दीधीवेव्योर्डित्वेऽपि छान्दृसत्वाद्यत्ययेन परस्मैपदम् । दीध्यत् । वेव्यत् ।

इति तान्ता ।


द्वे प्रथमस्य’ इत्यतो द्वे इत्यनुवर्तते । उभेग्रहण समुदायप्रतिपत्त्यर्थम् । द्वे इत्यनेन च षष्ठाध्याय विहितमेव द्वित्व विवक्षितम् । “ अनन्तरस्य विधिर्वा प्रतिषेधो वा ' इति न्यायात् । तदाह । षाठेत्यादिना ॥ समुदिते किम्, नेनिजतीत्यत्र प्रत्येकमभ्यस्तसज्ञायाम् “ अभ्यस्तानामादि इत्युदात्त प्रत्येक स्यात् । नाभ्यस्ताच्छतु . ॥ 'इदितो नुम् धातो ' इत्यतो नुमित्यनुवर्तते । तदाह । अभ्यस्तादित्यादिना ॥ दददिति ॥ ददत्शब्दात् सु । हल्डयादिलोप । ‘नाभ्यस्तात्’ इति निषेधात् “उगिदचाम्' इति नुम् न। अत्वन्तत्वाभावाच्च न दीर्घ इति भाव ।

  • जक्ष भक्षणहसनयो, जागृ निद्राक्षये, दरिद्रा दुर्गतौ, चकास् दीप्तौ, शासु अनुशिष्टौ, दीधीड्

दीप्तिदेवनयो, वेवीड् वेतिना तुल्ये' इति सप्त धातव अदादौ पठिता लुग्विकरणा । तेभ्यो लटश्शत्रादेशे शब्लुकि सुबुत्पत्तौ ‘नाम्यस्ताच्छतु ' इति निषेध इष्यते । अभ्यस्तसज्ञायाश्च द्वित्वनिबन्धनत्वादिहाप्राप्ताविदमारभ्यते । जक्षित्यादय षट् ॥ अभ्यस्तमित्यनुवृत्तू बहु वचनान्ततया विपरिणम्यते । तत्र जक्षिति आदिर्येषामिति तद्गुणसविज्ञानबहुव्रीहौ सति जक्षधातुमारभ्य षण्णामेव स्यात्, वेवीडो न स्यात् । अतद्गुणसविज्ञानबहुव्रीहौ तु जागृ इत्या रभ्य षण्णा ग्रहण स्यात्, नतु जक्षे । अतो व्याचष्टे । षड् धातवोऽन्ये जक्षितिश्च सप्तमः इति । अत्र विवरणवाक्ये जक्षितिरिति श्तिपा निर्देश , जक्षधातुरित्यर्थ । “रुदा दिभ्य सार्वधातुके' इति इडागमे रूपम् । सूत्रे जक्ष इति पृथक्पदम् । इतिना जक्षि परा मृश्यते । इति आदि येषामित्यतद्गुणसाविज्ञानबहुव्रीहि । ततश्च इत्यादयष्षट् इत्यनेन जक्ष धातो अन्ये जागृ इत्यारभ्य षड् धातवो विवक्षिता । चशब्द अद्याहार्य । एवञ्च जक्ष धातुश्च जागृधातुमारभ्य षड् धातवश्चेत्येव सप्त धातव अभ्यस्तसज्ञका स्युरिति फलतीत्यर्थ । तदिद भाष्ये स्पष्टम् । जक्षदिति ॥ अभ्यस्तत्वान्नुम्निषेध इति भाव । ननु दीधीवेव्यो र्डित्त्वात् “अनुदात्तडित आत्मनेपदम्' इति, आत्मनेपदसज्ञक एव लटश्शानजादेशस्यात्, न तु शत्रादेश इत्यत आह । दीधीवेव्योरिति ॥ दीधीवेव्यो छन्दोमात्रविषयत्व तिङन्ताधि कारे वक्ष्यते। ततश्च 'व्यत्ययो बहुळम्' इति छान्दस परस्मैपदम्। अतश्शानजसम्भवात् शत्रा देश एवेत्यर्थ । दीध्यत् । वेव्यदिति ॥ दीधी, वेवी, इत्याभ्या लटश्शत्रादेशे कृते शब्लुकि यणादेश । अभ्यस्तत्वाच्च नुम् नेति भाव ॥ इति तान्ता ।