पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३३३
बालमनोरमा ।

सदृश त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तद्व्ययम् ।।' इति [भाष्योक्ता] श्रुतिर्लिङ्गकारकसंख्याभावपरा ।

  • बष्टि भागुरिल्लोपमवाप्योरुपसर्गयो ।

आपं चैव हलन्ताना यथा वाचा निशा दिशा ।


उचैश्शब्दस्य केवलस्य पाठादिति भाव । ननु स्वरादिगणे केवलोचैश्शब्दस्य पाठेऽपि “स्वरादि निपातमव्ययम्’ इति अव्ययमज्ञा भवत्येव “ प्रयोजन सर्वनामाव्ययसज्ञायाम् ' इति वचनादत्याश इते । अव्ययसंज्ञायां यद्यपि तदन्तविधिरस्तीति ॥ परिहरति । तथापि न गौणे इति ॥ सर्वनामसज्ञायामुपसर्जनस्य नेति प्रकृत प्रतिषेध अव्ययसज्ञाविधावनुवर्तत इति तद्धितश्चासर्वविभक्ति ' इति सूत्रे भाध्ये स्पष्टमिति भाव । आाब्ग्रहणं व्यर्थमिति ॥ अव्ययादाप्सुप ' इति सूत्रे इति शेष । अलिङ्गत्वादिति ॥ अव्ययाना लिङ्गाभावादित्यर्थ । तथाच वार्तिकम्, “ अव्ययादाब्लुग्वचनानर्थक्य लिङ्गाभावात्' इति, तथा “तद्धितश्चासर्ववि भक्ति ' इति सूत्रे भाष्येऽप्युक्तम् । स्रापुन्नपुसकत्वानि सत्वगुणा एकत्वद्वित्वबहुत्वानि च एता नर्थान् ये न वियन्ति तदव्ययमिति । ननु अव्ययाना लिङ्गाभाव “सदृश त्रिषु लिङ्गेषु' इत्यथर्व णश्रुतिविरोध इत्याशङ्कय परिहरति । सदृशामिति ॥ त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु सर्वेषु वचनेषु च यत् न व्येति विकारं न प्राप्तोति, किन्तु सदृश एकप्रकारमेव भवति तदव्ययमिति अथर्वणश्रुतियोजना । अत्र विभक्तिवचनशब्दौ कारकसङ्खयापरौ, नतु प्रत्ययपरौ, अन्यतरग्रहण वैयर्थ्यात् । लिङ्गकारकेति ॥ लिङ्गकारकसङ्खयाभाव तात्पर्यविषयभूत यस्या इति विग्रह । लिङ्गेष्वित्यादिषु सप्तमी हि *षष्ठीचानादरे' इति विहिता । तथाच लिङ्गकारकसङ्खया अनादृत्य यत्र व्येति विकार न प्राप्तोति, किन्तु सदृशम् एकप्रकारमेव भवति, तदव्ययमित्युदाहृतश्रुतेरर्थ । तद्धितश्चासर्वविभक्ति ' इति सूत्रभाष्ये स्त्रीपुन्नपुसकत्वानि सत्वगुणा एकत्वद्वित्वबहुत्वानि च एतानर्थान्ये न वियन्ति तदव्ययमित्युपक्षिप्य तत्र प्रमाणतया अस्या श्रुतरुदाहृतत्वा दिति भाव । अय च लिङ्गकारकसङ्खयाभावनियम निपातानामेव, स्वरादीनान्तु कति पयाना लिङ्गकारकसङ्खयान्वयोऽस्त्येव “स्वरादिनिपातमव्ययम्’ इति सूत्रे भाष्ये चादीनाम सत्त्ववचनानामेव सज्ञा । स्वरादीनान्तु सत्त्ववचनानामसत्त्ववचनानाञ्च इत्युक्तत्वात् । “स्वस्ति वाचयति, स्वस्ति वाच्य इति, क्षीणे पुण्ये स्व पतति, प्रातर्यजते ’ इत्यादौ कर्मकारक्योगदर्श नाच्च । अथ प्रसङ्गादाह । वष्टीति ॥ अव, अपि इत्युपसर्गयो अकारस्य लोप हलन्तानाम् आपञ्च भागुरिनामक आचार्य वष्टि, इच्छतीत्यर्थ । एवशब्दस्तु पादपूरण । अवत्युपसर्गे । आदेरेवाकारस्य लोप नान्त्यस्य, अपिना साहचर्यात् । भागुरिशब्द दन्त्योष्ठयादिं केचित्पठन्ति । तत्वबोधिन्यान्तु पवर्गचतुर्थादि पठित, शब्देन्दुशेखरेऽप्येवम् । यथा वाचेति ॥ परिगणन मिति केचित्। उदाहरणमात्रमित्यन्ये। यद्यपि “वश कान्तौ' इत्यस्य छन्दोमात्रविषयत्व वक्ष्यते । तथापि अस्मादेव लिङ्गाल्लोकेऽपीत्याह । वस्तुतस्तु वष्टि भागुरिरिति श्लोको भाष्ये न दृश्यते । ४४