पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१६

एतत् पृष्ठम् परिष्कृतम् अस्ति


ईदन्तप्रकरणम्]
२०१
बालमनोरमा ।

अतिस्त्रिया.-अतिस्त्रे । अतिस्त्रीणाम् । अतिस्त्रियाम-अतिस्वौ । श्री । श्रियौ । श्रिय ।

३०३ ॥ नेयडुवङ्स्थानावस्त्री

इयडुवडो स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्त , न तु स्त्री । डे श्री । श्रियम्, श्रियौ, श्रिय । श्रियै-श्रिये । श्रिया -श्रिय ।

३०४ । वामि । (१-४-५)

इयडुवड्स्थानौ स्त्र्याख्यैौ यू आमि वा नदीसंज्ञौ स्त, न तु स्त्री श्रीणाम्--श्रियाम् । श्रियाम्--श्रियि । प्रधी' शब्दस्य तु वृत्तिकारादीना मते,

धित्वात् *घेर्डिति' इति गुणे अयादेश । अतिस्त्रियाः-अतिस्त्रेरिति । नदीत्वे आट् । तदभावे गुण । ‘डसिडसोश्च' इति पूर्वरूपम् । अतिस्त्रियामिति । नदीत्वपक्षे डेराम्, आट् । अतिस्त्राविति । नदीत्वाभावपक्षे “ अञ्च घे ? । श्रीरिति । श्रयन्त्यतामिति श्री । क्विव्वचिप्रच्छयातस्तुकटप्रुजुश्रीणा दीर्घोऽमम्प्रसारणश्च' इति क्विप्, प्रकृतेर्दीर्घश्च । श्रीशब्दात् सु । अडयन्तत्वान्न सुलोप । श्रियौ, श्रिय. इति । “दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घ निषेधे 'इको यणचि' इति यणि प्राप्ते धात्ववयवेवर्णान्तत्वात् “ अचि श्नुधातु' इतीयड् । एकाच्त्वात् सयोगपूर्वकत्वाच्च यण् न । ‘यू स्रयाख्यौ' इति नदीत्वात् “ अम्बार्थ ' इति हृस्वे प्राप्ते । नेयडुवङ् ॥ 'यू स्त्रयाख्यौ नदी' इत्यतो यू नदात्यनुवर्तते । स्थानशब्दो भावे ल्युडन्त । इयडुवडो स्थान स्थितिर्ययेोरिति बहुव्रीहे । इयडुवडयोग्याविति यावत् । तदाह । इयड्वडोरित्यादिना । हे श्रीरिति । अजादावियडयोग्यत्वात् नदीन्व निषेधात् “अम्बार्थनद्यो ' इति ह्रस्वो नेति भाव । श्रियमिति । अमि पूर्वरूप बाधित्वा इयड् । श्रियौ, श्रियः इति ॥ औट्शसो पूर्ववत् । टा श्रिया । श्रियै इति ॥ 'डिति हूस्वश्व ' इति डिति नदीत्वपक्षे आट्, वृद्धि । श्रिये इति ॥ नदीत्वाभावे इयड् । श्रियाः इति ॥ डसिडसो नदीत्वे आट्, वृद्धि । श्रियः इति ॥ नदीत्वाभावपक्षे इयडेव । डित्वाभावात् आमि डिति ह्रस्वश्च' इति अप्राप्ते। वामि ॥ यू स्रयाख्यौ नदीत्यनुवर्तते। 'नेयडुवड्स्थानावस्त्री'इति नञ्वर्जमनुवर्तते । वा आमीति छेद । आमि नदीकार्याभावात् । तदाह । इयडुवक्यस्थाना वित्यादिना । श्रीणामिति । नदीत्वपक्षे 'हूस्वनद्याप ' इनि नुट् । श्रियामिति ॥ नदी त्वाभावे इयड् । श्रियाम्-श्रियीति । नदीत्वे डेराम्, आट्, इयड् । नुट् तु न । आटा नुड् बाध्यते इत्युक्तत्वात् । नदीत्वाभावे तु इयडेव । श्रियो । श्रीषु । प्रधीशब्दस्य त्विति प्रध्यायतीत्यर्थे 'घ्यायतेस्सम्प्रसारण च' इति क्विपि यकारस्य सम्प्रसारणे इकारे “सम्प्रसार णाच्च' इति पूर्वरूपे 'हल ' इति दीर्धे निष्पन्नस्य प्रधीशब्दस्य वृत्तिकारहरदत्तादिमते लक्ष्मीव द्रूपाणि। तत्र ‘एरनेकाच' इति यणा इयडो बाधितत्वेन इयड्स्थानत्वाभावात् 'नेयदुवइस्थानौ