पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/२१

एतत् पृष्ठम् परिष्कृतम् अस्ति


२०६
[अजन्तस्त्रीलिङ्गे
सिद्धान्तकौमुदीसहिता

स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा ।

याता मातेति सप्रैते स्वस्रादय उदाहृताः ।।'

अप्तृन्-'(सू २७७) इति दीर्घः । स्वसा । स्वसारौ । स्वसारः । माता पितृवत् । शसि मातृः ।

इत्यृदन्ताः ।

॥ अथ अजन्तस्त्रीलिङ्गे ओदन्तप्रकरणम् ॥

द्यौः' : गो'वत् ।

इत्योदन्ताः ।

॥ अथ अजन्तस्त्रीलिङ्गे ऐदन्तप्रकरणम् ।।

राः' पुंवत् ।

इत्यैदन्ताः ।

॥ अथ अजन्तस्त्रीलिङ्गे औदन्तप्रकरणम् ।।

नौ ग्लौवत् ।

इत्यौदन्ताः ।


‘टाबृचि' इत्यतष्टाबित्यस्य चानुवृत्तेरिति भाव । स्वस्रादीन् पठति । स्वसा तिस्रः इत्यादिना।॥ अत्र तिसृ, चतसृ, इत्यनयो पाठो न कर्तव्य । ‘न तिसृचतसृ' इति नामि दीर्घनिषेधादेव लिङ्गात् डीबभावसिद्धेरिति “कृन्मेजन्त ' इति सूत्रे कैयट । न नन्दूतीति ननान्दा । ‘नडेि च नन्दे ' इति ऋन्, वृद्धिश्च । “ननान्दा तु स्वसा पत्यु ” इत्यमर । दोग्वीति दुहिता । “नप्तृ, नेष्टृ, त्वष्टृ, होतृ, पोतृ, भ्रातृ, जामातृ, मातृ, पितृ, दुहितृ' इति दुहेस्तृच् । इट् गु णाभावश्च निपातित । मान्यते पूज्यते इति माता । मान पूजायाम् । तृचि नलोपश्च । यतते इति याता । ‘यतेर्वेद्धिश्च' इति ऋन्, उपधावृद्धिश्च, “भार्यास्तु भ्रातृवर्गस्य यातरस्यु परस्परम्” इत्यमर । अप्तृन्नितीति ॥ स्वसृशब्दात् सु, 'ऋदुशनस्’ इत्यनड्, तृप्रत्ययान्तत्वाभावेऽपि ‘अप्तृन्’ इति सूत्रे स्वसृग्रहणात् दीर्घ इति भावः । माता पितृवदिति ॥ “अप्तृन्' इति सूत्रे औणादिकतृन्तृजन्तेषु नप्त्रादीनामेव दीर्घनियमनादिति भावः ॥

इत्यृदन्ताः ।

अथ ओदन्ता निरूप्यन्ते । द्यौर्गोवदिति ॥ * ओतो णित्' इति णिद्वत्वाति देशात् “अचो डिणति' इति वृद्धि । “ध्योदिवौ द्वे स्त्रियामभ्रम्” इत्यमरः ॥

इत्योदन्ताः ।

अथ ऐदन्ता. निरूप्यन्ते । राः पुंवदिति ॥ ‘रायो हलि' इत्यात्वम् । 'रा स्रीत्येके' इति क्षीरस्वाम्युक्ते स्त्रीलिङ्गोऽप्ययमिति भावः ॥

इत्यैदन्ताः ।

अथ औदन्ता निरूप्यन्ते । नौर्ग्लौवदिति ॥ “स्त्रिया नौस्तरणिस्तरि ” इत्यमरः ।

इत्यौदन्ताः ।

इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां अजन्तस्त्रीलिङ्गनिरूपणं समाप्तम् ॥