पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/२४

एतत् पृष्ठम् परिष्कृतम् अस्ति


अदन्तप्रकरणम् ]
२०९
बलमनोरमा

३१५ । अद्डुतरादिभ्यः पञ्चभ्यः । (७-१-२५)

एभ्यः क्लीबेभ्यः स्वमोरद्डादेशः स्यात् ।

३१६ । टेः । (६-४-१४३)

डिति परे भस्य टेर्लोप स्यात् । “वाऽवसाने' (सू २०६) । कतरत्-कतरद् । कतर । कतराणि । 'भस्य' इति किम् । पञ्चमः । टेर्लुप्त त्वात् प्रथमयो –’ (सू १६४) इति पूर्वसवर्णदीर्घः एड्हृस्वात् (सू १९३) इति सम्बुद्धिलोपश्च न भवति । हे कतरन् । पुनस्तद्वत् । शेषं पुंवत् । कतमत् । इतरत् । अन्यत् । अन्यतरत् । अन्यतमशब्दस्य तु अन्यतममित्येव । “ एकतरात्प्रतिषेधो वक्तव्यः ' (वा ४२८७) । एकतरम् ।

शेषं रामवदिति । शिष्यत इति शेषम्। कर्मणि घञ् । “घजजबन्ता पुसि' इति तु प्रायिक मिति भाव । अद्डुतरादिभ्यः ॥ अद्ड् डतरादिभ्य इति छेद । दस्य ष्टुत्वेन डकार डस्य सयागान्तलोपश्च आादशस्वरूपावगतये न कृत इत कैयट । डतर, डतम, अन्य, अन्यतर, इतर, इति डतरादयस्सर्वादिगणपठिता । अत्र डतरडतमौ प्रत्ययौ । अतस्तदन्त ग्रहणम् । ‘स्वमोर्नपुसकात्’ इति सूत्रमनुवर्तते । तदाह । एभ्यः इत्यादिना ॥ डकार इत् । कतर अद् इति स्थिते । टे. ॥ अल्लोपोऽन इत्यस्माल्लोप इति “ति विंशतेडिति' इत्यत दि तीति चानुवर्तते । भस्येत्यधिकृतम् । तदाह । डितीत्यादिना । कतर अद् इत्यत्र रेफा दकारस्य लाप । चत्वैविकल्प स्मारयति । वावसाने इति । ननु पररूपेण कतरदिति सिद्धे अद्डो डित्करणस्य किं प्रयोजनमित्यत आह । टेर्लुप्तत्वादिति॥ टेर्लप्तत्वात् पूर्व सवर्णदीर्घो न भवतीत्यन्वय । डित्त्वाभावे “टे' इति लोपस्याप्राप्तया पररूप बाधित्वा पूर्व सवर्णदीर्घे प्रसज्येत इति भाव । ननु पूर्वसवर्णदीर्घभावाय दकार एवादेश क्रियताभित्यत आह । एड्ह्रस्वादित्यादि । सोर्दकारादेशे सति तस्य स्थानिवत्वेन सम्बुद्धित्वात् हूस्वान्तादङ्गात् परत्वाच्च लोपः प्रसज्येत । अद्डादेशे तु टिलोपे सति कतर् इत्यङ्गम् । न तद्रस्वान्तम् । यतु हूस्वान्त कतर इति न तदङ्गम् । रेफादकारस्य प्रत्ययावयवत्वेन् तदन्तस्य प्रत्ययपरकत्वाभावेन अङ्गत्वाभावात् । अतष्टिलोपप्रवृत्तये अद्डादेशविधिरिति भाव. । पुन स्तद्वदिति ॥ प्रथमावत् द्वितीयेत्यर्थ । शेषं पुंवदिति ॥ सर्ववदित्यर्थ । अन्यतम शब्दस्य त्विति ॥ तस्याव्युत्पन्नप्रातिपदिकत्वेन डतमप्रत्ययान्तत्वाभावेन तत्राद्डादेशो नेत्यर्थ । 'एकाच्च प्राचाम्' इति डतरजन्तादेकतरशब्दात् स्वमोरद्डादेशे प्राप्ते आह । एक तरादिति ॥ एकतरशब्दात् परयो स्वमोरद्डादेशप्रतिषेधो वक्तव्य इत्यर्थः । अविद्यमाना जरा यस्य कुलस्येति विग्रहे ‘नमोऽस्त्यर्थानाम्’ इति बहुव्रीहौ विद्यमानपदलोपे ‘गोस्त्रियोः' इति