पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/२५

एतत् पृष्ठम् परिष्कृतम् अस्ति


२१०
[अजन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

सोरमादेशे कृते सन्निपातपरिभाषया न जरस् । अजरम् । अजरसी-अजरे । परत्वाज्जरासि कृते झलन्तत्वान्नुम् ।

३१७ । सान्त महतः संयोगस्य । (६-४-१०)

सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घः स्यादसम्बुद्धौ सर्वनामस्थाने परे । अजरासि-अजराणि । अमि लुकोऽपवादमम्भावं बाधि त्वा परत्वाज्जरस् । तत सन्निपातपरिभाषया न लुक् । अजरसम्-अजरम् ।


हूस्वत्वे अजरशब्द । तस्य प्रक्रिया दर्शयति । सोरिति । सोरमादेशे कृते अजरमित्य न्वय । जरसादेशमाशङ्कय आह । सन्निपातेति । अदन्तसन्निपाताश्रयस्य अम अदन्त त्वविघातकजरसादेश प्रति निमित्तत्वायोगादिति भाव । अजरसी इति ॥ ‘नपुसकाञ्च' इति शीभावे जरसादेशे रूपम् । अजरे इति ॥ जरसादेशाभावे रूपम् । जसि रूप दर्शयितुमाह। परत्वादिति । अजर अस् इति स्थिते 'जश्शसोश्शि ' इति शिभावात् परत्वाज्जरसि कृते ततश्शिभावे झलन्तत्वान्नुमित्यर्थ इति केचित् । तदेतत् ‘जराया जरस्' इति सूत्रे अजरासी त्यत्र “नुम्जरसो प्राप्तयो विप्रतिषेधेन जरस्” इति भाष्यविरुद्धत्वादुपेक्ष्यम् । शिभावात् पूर्वमेव परत्वात् जरस प्रवृत्तौ हि तदा जसस्सर्वनामस्थानत्वाभावेन नुम एवाप्रसक्ते तदसङ्गति स्पष्टैव । पूर्वविप्रतिषेधमाश्रित्य जरस पूर्वमेव शिभावे तु तद्भाष्य सङ्गच्छते । एवञ्च जरस पूर्वमेव शिभावे कृते तस्य सर्वनामस्थानत्वात् तस्मिन् परे नुम्जरसो प्राप्तयो नुमपेक्षया परत्वात् जरस् । ततो झलन्तलक्षणो नुमित्येव व्याख्येयम् । यदि हि जरसादेशात् प्रागेव अजन्तलक्षणो नुम् स्यात् । तदा अजरन् ई इति स्थिते “निर्दिश्यमानस्यादेशा भवन्ति' इति न्यायेन जर इत्यस्य जरसि कृते अजरस् न् इति स्थिते सान्तसयोगाभावात् ‘सान्त महत' इति वक्ष्यमाणदीर्घो न स्यादित्यादि शब्देन्दुशेखरे निर्जरशब्दनिरूपणे अत्र च प्रपञ्चितम् । उभयथापि अजरन् स् इ इति स्थिते नान्तत्वाभावात् “सर्वनामस्थाने च' इति दीर्घे अप्राप्ते । सान्त महतः ।। “सर्वनामस्थाने चासम्बुद्धौ' इति नोपधाया इति चानुवर्तते । नेति लुप्तषष्ठीक पदम् । “ढ्रलोपे पूर्वस्य' इत्यतो दीर्घ इत्यनुवर्तते । नकारस्य उपधाया दीर्घ इति लभ्यते । सयोगस्येत्यवयवषष्ठयन्त नकारे अन्वेति । सान्तेति षष्ठयन्त पृथक्पदम् । आर्षष्षष्ठया लुक् । सान्तस्येति लभ्यते । तच्च सयोगे अभेदेनान्वेति । सान्तो यस्सयोग इति । अत एव सामर्थ्यान्महच्छब्देन तस्य न समास । महत इत्यप्यवयवषष्ठयन्तम्। तच्च नकारे अन्वेति । तदाह । सान्तसंयोगस्येत्यादिना ॥ अजरांसीति ॥ दीर्घे सति ‘नश्चापदान्तस्य इत्यनुस्वार. । अत्र उपधाया इति पूर्वत्वमात्रोपलक्षणम् । पारिभाषिकोपधात्वस्यासम्भवात् । अथ द्वितीयैकवचने रूप दर्शयितुमाह । अमि लुकः इति ॥ अजर अम् इति स्थिते “स्वमो नैपुसकात्’ इति लुक् प्राप्त , त बाधित्वा तदपवाद अतोऽम्' इत्यम्भाव प्राप्त , त बाधित्वा विप्रतिषेधे परम्' इति परत्वाज्जरस् । अजरसमिति । वस्तुस्थितिकथनमेतत् । ननु लुगपवादस्याम्भावस्य जरसादेशेन बाधितत्वात् “अपवादे निषिद्धे पुनरुत्सर्गस्य स्थिति 'इति न्यायेन अमो लुक् कुतो न स्यादित्यत आह । ततः इति । ततो न लुगित्यन्वयः । जरसा