पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/२६

एतत् पृष्ठम् परिष्कृतम् अस्ति


अदन्तप्रकरणम्]
२११
बालमनोरमा

अजरसी-अजरे । अजरासि-अजराणि । शेषं पुवन् । * पद्दन्न–' (सू २२८) इति हृदयोदकास्याना ह्रद् उदन् आसन् । हृन्दि । हृदा । हृद्भयामित्यादि । उदानि । उद्रा । उदयामित्यादि । आासानि । आस्न्ना । आमभ्यामित्यादि ।मासि । मांसा । मान्भ्यामित्यादि । वस्तुतस्तु प्रभृतिग्रहण प्रकारार्थमित्युक्तम् ।अत एव भाष्ये 'मांस्पचन्या उखाया ' इत्युदाहृतम् । अयस्मयादित्वेन

देशानन्तर अमा लुड् न भवतीत्यर्थ । कुत इत्यत आह । सन्निपातेति । अम्सन्निपात माश्रित्य प्रवृत्तस्य जरस तत्लुकि निमित्तत्वाभावादिति भाव । शेष पुवन् । अजरसा-अजरेण अजरसे-अजराय । अजरस -अजरान्। अजरस -अजरस्य । अजरसो -अजरयो । अजरसि अजरे । हृदयोदकास्यशब्दा सुटि ज्ञानवत् । शमादौ विशेषमाह । पद्दन्निति ॥ हृन्दी ति । हृदयशब्दात् शसश्शिभावे हृदादेशे “नपुसकस्य झलच ' इति ऋकारात् परतो नुमि नश्वापदान्तस्य ' इत्यनुस्वार तस्य परसवर्णे नकारे रूपम् । इत्यादीति ॥ हृद । हृद । हृद । हृदो । हृदो । हृदाम् । हृदि । हृत्सु । हृदभावपक्षे ज्ञानवत् । उदकशब्दस्सुटि ज्ञानवत् । शसादौ विशेषमाह । उदानीति । शसश्शिभावे उदन्नादशे “सर्वनामस्थाने च' इति दीर्घ । अल्लोपोऽन' इति तु न । शेस्सर्वनामस्थानत्वात् । उदनेति । उदक आ इति स्थिते उदन्नादेशे अल्लोप । उद्भ्यामिति । उदन्नादश “न लोप प्रातिपदिकान्तस्य ' इति नलोप । “स्वादि ष्वसर्वनामस्थाने' इति पदत्वात् । इत्यादीति । उद्र । उद्र । उद्र । उद्रो । उद्रेो । उदनि उद्रि । उदन्नभावपक्षे ज्ञानवत् । आस्यशब्दस्सुटि ज्ञानवत् । शसादो विशेषमाह । आसानी त्यादि । उदन्नादेशवद्रूपाणि । इत्यादीति ॥ आस्ने । आस्न । आस्न । आस्नो । आस्नो । आस्नि-आसनि । आससु । आसन्नभावपक्षे ज्ञ नवत् । मामशब्दोऽपि सुटि ज्ञानवत् । “मास पृतनासानूनाम्' इति शसादौ माम् आदेश । अत्र नकारस्य ‘नश्वापदान्तस्य’ इति कृतानुस्वारस्य निर्देश । अत एवाह । मान्भ्यामिति । मास आदेशे सकारस्य सयोगान्तलोपे सति निमित्तापायात् अनुस्वारनिवृत्तौ रूपम् । सयोगान्तलोपस्यासिद्धत्वान्नलोपो न । अथ सुट्यपि हृदाद्यादेश साधयितुमाह । वस्तुतस्त्विति । इत्युक्तमिति । “ककुद्दोषणी” इति भाष्य प्रयोगात् प्रभृतिग्रहणस्य प्रकारार्थत्व अजन्तपुल्लिङ्गाधिकारे स्वयमुक्तमित्यर्थ । ननु प्रभृतिः ग्रहणस्य प्रकारार्थत्वेऽपि प्रत्ययत्वेन सादृश्यविवक्षाया प्रथमैकवचने हृत् इति प्रयोगोऽनुपपन्न । सोर्लुका लुप्तत्वेन प्रत्ययलक्षणस्याप्यभावात् तदनित्यत्वाश्रयणे च मानाभावादित्यत आह । अत एवेति । मांस्पचन्याः इति । पच्यते अस्यामुखायामिति पचनी । अधि करणे ल्युट्, अनादेश । टित्त्वात् डीप् । मासस्य पचनीति षष्ठीसमास । अत्र डसो लुका लुप्तत्वात प्रत्ययलक्षणाभावे प्रत्ययपरत्वाभावात् मास् अ देशो न स्यात् । अतो हृदाद्या देशविवौ “न लुमता' इति निषेधस्यानित्यत्वमाश्रीयते इत्यर्थ। ननु मास्पचन्या इत्यत्र

अन्तर्वर्तिन डस लुसमाश्रित्य मास् इत्यस्यास्ति पदत्वम् । सुप्तिडन्तम्' इति पदसज्ञाया प्रकृति प्रत्ययधर्मत्वेन केवलाङ्गधर्मत्वाभावेन अत्र “न लुमता' इति निषेधस्याप्रवृत्त । अन्यथा राजपुरुष इत्यत्र कथन्नलोप । ततश्चात्र सकारस्य सयोगान्तलेापो दुर्वार इत्यत आह ।