पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/२७

एतत् पृष्ठम् परिष्कृतम् अस्ति


२१२
[अजन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

भत्वात्संयोगान्तलोपो न । पद्दन्न-' (सू २२८) इत्यत्र हि छन्दसि इत्यनुवर्तितं वृत्तौ । तथापि अपो भि' (सू ४४२) इत्यत्र “मासश्छन्दसि (वा ४६३४) इति वार्तिके छन्दोग्रहणसामर्थ्यलोकेऽपि क्वचित्' इति कैय टोक्तरीत्या प्रयोगमनुस्मृत्य पदादय प्रयोक्तव्या इति बोध्यम् ।

इत्यदन्तप्रकरणम् ।

॥ अथ अजन्तनपुंसकलिङ्गे आदन्तप्रकरणम् ।।

श्रिय पाति श्रीपा ।

३१८ । हस्वो नपुंसके प्रातिपदिकस्य । (१-२-४७)

क्लीबे प्रातिपदिकस्याजन्तस्य ह्रस्व स्यात् । श्रीपं ज्ञानवत् ।


भत्वात् सयोगान्तलोपो नेति । ननु यजादिस्वादिप्रत्यये परे विधीयमानाया भस ज्ञाया केवलाङ्गधर्मत्वात् तत्र लुका लुप्ते प्रत्ययलक्षणनिषेधात् कथमिह भसज्ञेत्यत आह । अयस्मयादित्वेनेति । मास् आदेशस्य अयस्मयादिगणपठितत्वात् “अयस्मयादीनि छन्द सि' इति भत्वमित्यर्थ । शङ्कते। पद्दन्नित्यत्रेति ॥ 'पद्दन्' इति सूत्रे 'शिर्षन् छन्दसि इत्यत छन्दसीत्यनुवृत्ति वृत्तिग्रन्थे प्रदर्शितेत्यर्थ । ततश्च वैदिकप्रक्रियायामेव तदुपन्यासो युज्यत इत्याक्षेप । परिहरति । तथापीति । 'पद्दन्नो' इति सूत्रे छन्दोग्रहणानुवत्तावपि लोकेऽपि क्वचिदित्यन्वय । कुतो लोकेऽपि प्रयोग इत्यत आह । अपो भीत्यादीति ॥ अपो भि' इति सूत्र अपस्तकारस्यात् भादौ प्रत्यये परे इत्यर्थ । तत्रास्ति वार्तिकम् । मासश्छन्दसि' इति मास् इत्यस्य तकारस्स्यात भादिप्रत्यये परे छन्दसि इति तदर्थं । ऋग्वेदे माद्भिश्शरद्भिरित्यादिमन्त्रमुदाहरणम् । यदि “पद्दन्' इति छन्दोमात्रविषय स्यात् तदा मास् इत्यादेशस्य छन्दोमात्रविषयत्वादलौकिकत्वाच्च मासश्छन्दसीति सस्य तकारविधौ छन्दो ग्रहण व्यर्थ स्यात् । अतो लोकेऽपि क्वचिदिति कैयटोक्तरीत्या 'पद्दन्’ इत्यस्य लोकेऽपि प्रवृत्तिमनुसृत्य पदाद्यादेशा प्रयोक्तु योग्या इत्यर्थ ॥

इत्यदन्ताः ।

अथ आदन्ता निरूप्यन्ते । श्रियं पातीति ॥ श्रीपाशब्दो विश्वपाशब्दवत् । घञ्न्त क्लिबन्तो वा । तस्य नपुसकत्वे ह्रस्वविधानमाह । हृस्वो नपुंसके ॥ हूस्वश्रुत्या उपस्थितेन अच इत्यनेन प्रातिपदिकस्य विशेषणात् तदन्तविधिरित्याह । क्लीबे इत्यादिना ॥ नच कुले इति द्विवचने एकादेशस्य पूर्वान्तत्वेन ग्रहणात् अजन्तप्रातिपदिकत्वाद्रस्वस्यादिति