पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१४
[अजन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

३२० । इकोऽचि विभक्तौ । (७-१-७३)

इगन्तस्य क्लीबस्य नुमागमः स्यादचि विभक्तौ । वारिणी । वारीणि । न लुमता–' (सू २६३) इति निषेधस्यानित्यत्वात्पक्षे सम्बुद्धिनिमित्तो गुण । हे वारे-हे वारि । “आडो ना –’ (सू २४४) । वारिणा । ' घेर्डिति । (सू २४५) इति गुणे प्राप्ते “ वृद्धौत्वतृज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन (वा ४३७३) वारिणे । वारिण । वारिणो “नुमचिर–' (वा ४३७४)


सोरमश्च लुकि रूपम् । नच ‘आदे परस्य’ इति अम अकारस्यैव लुक् स्यात् । नतु मकारस्यापीति शङ्कयम् । प्रत्ययस्य लोप एव हि लुगित्युच्यते । अम् इति समुदाय एवेह प्रत्यय । नतु तदेकदेशभूतमकारमात्रम् । अतो लुगमस्सर्वादेश एव भवति । इकोऽचि ॥ 'इदितो नुम् धातो ' इत्यतो नुमित्यनुवर्तते । ‘नपुसकस्य झलच ' इत्यतो नपुसकस्येत्यनुवर्तते । अङ्गस्येत्यधि कृतम् इका विशष्यते तदन्तविधि । तदाह । इगन्तस्येत्यादिना । अचि विभक्ता विति ॥ अजादौ विभक्तावित्यर्थ । 'इकोऽचि मुपि' इत्येव सुवचम् । विभक्तौ किम् । मधु मद्य तस्येद माधवम् । अणि परे नुमि लोपे माधुनमिति न भवति । वारिणी इति ॥ वारि ौ इति स्थिते शीभावे नुमि “ अट्कुत्राड्' इति णत्वे रूपम । वारीणि इति ॥ जश्शसो शिभावे नुमि 'सर्वनामस्थाने च' इति दीर्धे णत्वे रूपम् । हे वारि सु इत्यत्र सोर्लुकि प्रक्रिया दर्शयति । पक्षे इति ॥ 'ह्रस्वस्य गुण ' इति सम्बुद्धिनिमित्तको गुण कदा चिद्भवतीत्यर्थ । नन्विह सम्बुद्धेर्लुका लुप्तत्वात् *न लुमता' इति प्रत्ययलक्षणनिषेधात् कय गुण इत्यत आह । न लुमतेतेि निषेधस्यानित्यत्वादिति । अत्र च “इकोऽचि वि भक्तौ' इत्यत्राज्ग्रहण ज्ञापकम् । हलादिषु म्यामादिषु सत्यपि नुमि “न लोप प्रातिपदिका न्तस्य' इति तस्य लोपसम्भवादचीति व्यर्थम् । न च सम्बुद्धिव्यावृत्त्यर्थ अज्ग्रहणम् । तत्र नुमि सति “न डिसम्बुध्द्यो ' इति निषेधे सति नकारश्रवणप्रसङ्गादिति वाच्यम् । सम्बु द्वेर्लुका लुप्ततया प्रत्ययलक्षणाभावेन तत्र नुम प्राप्तेरेवाभावात् । “न लुमता' इति निषेध स्यानित्यत्वे तु सम्बुद्धो प्रत्ययलक्षणेन प्राप्त नुम वारयितुमज्ग्रहणम् अर्थवदिति भवत्यज्ग्रहण न लुमता' इत्यस्यानित्यत्वे लिङ्गमित्याहु । अत एव “इकोऽचि' इति सूत्रे हे त्रपो इति एड्ह्स्वात्' इति सूत्रे हे त्रपु इति च भाष्य सङ्गच्छते । आाङो नेति ॥ रूपे विशेषा भावेऽपि नुमपेक्षया परत्वेन नाभावस्यैव न्याय्यत्वादिति भाव । डसिडसो विशेषमाह । घेरिति ॥ नुम बाधित्वा परत्वात् गुणे प्राप्ते इत्यर्थ । वृद्धौत्त्वेति ॥ वार्तिकम् । वृद्धादीना क्रमेण गावौ हरौ क्रोष्ट्रा हरये इत्यवकाश नुमोऽवकाश वारीणि इति । अतिसखीनि इत्यत्र जश्शसो “सख्युरसम्बुद्धौ' इति णित्वादृद्धि परत्वात् नुम बाधित्वा प्राप्ता । वारिणि इत्यत्र डौ तु 'अच घे' इत्यौत्त्व प्राप्तम् । प्रियक्रोष्टूनि इत्यत्र जश्शसो तृज्वत्व प्राप्तम् । वारिशब्दान् डयादौ गुण प्राप्त । अत्र पूर्वविप्रतिषेधान्नुमेवेत्यर्थ । वारिणे इति ॥ डयि गुण बाधित्वा नुमि णत्वे रूपम् । वारिणः इति ॥ डसिडसो गुण बाधित्वा नुमि णत्वे