पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१६
[अजन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

३२२ । अस्थिदधिसक्थ्यक्ष्णामनडुदात्तः । (७-१-७५)

एषामनङ् स्याट्टादावचि, स चोदात्त । * अल्लोपोऽन ' (सू २३४) । दध्ना । दध्ने । दध्न. । दध्र । दध्नो । दध्नाम् । दध्नि-दधनि । दध्रो । शेषं वारेिवत् । एवमस्थिसक्थ्यक्षीणि । तदन्तस्याप्यनङ् । अतिदध्ना ।

इति इदन्तप्रकरणम् ।

॥ अथ अजन्तनपुंसकलिङ्गे ईदन्तप्रकरणम् ।

सुधि । सुधिनी । सुधीनि । हे सुधे-हे सुधि । सुधिया-सुधिना । सुधियाम्-सुधीनाम् । प्रध्या-प्रधिना ।

इति ईदन्तप्रकरणम् ।


फलविशेषे तु वाच्ये फलत्वव्याप्यजातिविशेषात्मक पीलुत्व प्रवृत्तिनिमित्तमिति प्रवृत्तिनिमित्त भेदादित्यर्थ । तदुक्त “पीलुवृक्ष फल पीलु पीलुने नतु पीलुवे । वृक्षे निमित्त पीलुत्व तज्जत्व तत्फले पुन ' इति । अस्थि, दधि, सक्थि, अक्षि, एतेषा प्रथमाद्वितीययोर्वारिव द्रूपाणि । टादावचि विशेषमाह । अस्थिदधि ॥ तृतीयादिष्विति अचीति चानु वर्तते । तदाह । एषामित्यादिना ॥ नुमोऽपवाद । अनडि डकार इत्, अकार उच्चार णार्थे । डित्वादन्तादेश । दधनि-दध्नि । “विभाषा डिश्यो ' इत्यल्लोपविकल्प इति भाव । तदन्तस्यापीति ॥ आङ्गत्वादिति अतिदध्नेति । दधि अतिक्रान्त कुलमति भाव । दधि । अत्रापि नपुसकस्यति सम्बद्धद्यते । ततश्च धाञ “आदृगमहन ' इति किप्रत्यये दधि शब्दस्य पुस्त्वे दधिनेत्येव । नपुसकस्येति श्रूयमाणमस्थ्यादिभिरेवान्वेति । तेनातिदध्वा ब्राह्मणेनेत्यादि सिद्धम् ॥

इति इदन्ताः ।

अथ ईदन्ता निरूप्यन्ते ॥ सुध्द्यायतीति सु शोभना धीर्यस्येति वा विप्रहे सुधीशब्दस्य 'हूस्वो नपुसके' इति हूस्वत्वे वारिवद्रूपाणीत्याह । सुधि, सुधिनी, इत्यादि। परत्वान्नुमा इयडू बाध्यते इति -भाव । सुधिया सुधिनेति ॥ सुद्यातृत्वस्य शोभन ज्ञानवत्वस्य वा प्रवृत्तिनिमित्तस्य पुसि नपुसके च एकत्वात् पुवत्त्वविकल्प । एव प्रधीशब्द । तत्र “न भूसुधियो' इति निषेधाभावात् “एरनेकाच ' इति यण् ॥

इति ईदन्ताः ।