पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१८
[अजन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

॥ अथ अजन्तनपुंसकलिङ्गे ऊदन्तप्रकरणम् ॥

सुलु, सुलुनी, सुलनि । पुनस्तद्वत् । सुल्वा-सुलुना ।

इत्यूदन्ताः ।

॥ अथ अजन्तनपुंसकलिङ्गे ऋदन्तप्रकरणम् ।।

धातृ, धातृणी, धातृणि । हे धात -हे धातृ । धात्रा-धातृणा । एव ज्ञातृकर्तादय।

इत्यृदन्ताः ।

अथ ऊदन्ता निरूयन्ते । सुल्विति ॥ सुष्टु लुनातीति क्विप् । “हूस्वो नपुसके ' इति हृस्व । सुलुनी इति ॥ 'ओस्सुपि' इति यण बाधित्वा परत्वान्नुम् । सुल्वेति ॥ शोभनलवनकर्तृत्व प्रवृत्तिनिमितैक्यमिति पुवत्त्वविकल्प । पुवत्त्व ह्रस्वाभावेनाघित्वात् नाभावो न । नुमभावश्च । “ ओस्सुपि' इति यण । पुवत्त्वाभावपक्षे तु यण बाधित्वा नुम् । डेप्रभृतिषु तु पुवत्त्वाभावे ‘वृध्ध्यौत्त्व' इति पूर्वविप्रतिषेधेन नुमि सुलुने, पुवत्त्वे तु सुल्वे इत्यादि रूपद्वयम् ।

इत्यूदन्ताः ।

अथ ऋदन्ता निरूप्यन्ते । धातृ इति ॥ दधातीति धातृ । “न लुमता इति निषेधादनङ् न । धातृणी इति ॥ “इकोऽचि' इति नुमि 'ऋवर्णान्नस्य’ इति णत्वम् । धातृणि इति ॥ जश्शसेोशिभावे नुमि “सर्वनामस्थाने च' इति दीर्धे णत्वम् । “न लुमता' इति निषेधस्यानित्यत्वात् सम्बुद्धिनिमित्तको हूस्वस्य पक्षे गुण इत्यत आह । हे धातः- हे धातृ, इति ॥ धारणकर्तृत्वरूपप्रवृत्तिनिमित्तैक्यात् टादावचि पुवत्त्व विकल्प इत्याह । धात्रा-धातृणा इति । धात्रे-। धातृणे धातु-धातृण । धात्रो धातृणो । 'नुमचिर' इति नुट् । धातृणाम् । धातरि-धातृणि ॥

इत्यृदन्ताः ।