पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/३६

एतत् पृष्ठम् परिष्कृतम् अस्ति


॥ अथ हलन्तपुल्लिङ्गे हकारान्तप्रकरणम् ॥

३२४ । हो ढः । (८-२-३१)

हस्य ढ. स्याज्झलि पदान्ते च । “हल्ड-याप्–’ (सू २५२) इति सुलोप । पदान्तत्वाद्वस्य ढ । जश्त्वचर्त्वे। लिट-लिङ्, लिहौ, लिह । लिहम : लिहौ, लिह । लिहा, लिङ्भ्याम् इत्यादि । लिट्त्सु-लिट्सु ।

३२५ । दादेर्धातोर्घः । (८-२-३२)


अथ हकारान्ता निरूपयन्ते । तत्र वर्णसम्नायक्रममनुस्मृत्य हकारान्तमादो निरूपयितुमाह । हो ढ. ।। ह इति षष्टयन्तम् । 'झलो झलि’ इत्यता झलीत्यनुवर्तते । पद स्थेत्यविकृतम् । “स्कोम्सयोगाद्यान्न च इत्यताऽन्त इत्यनुवर्तते । तदाह । हस्येति ॥ झलीति ॥ झलि परत पर्वस्य हकारस्य पदान्न विद्यमानस्य हकारस्य चेत्यर्थ । नच डकार एव कुतो न विहित इति वाच्यम् । “वा द्रुह इत्यत्र वक्ष्यमाणत्वात् । पदान्तत्वा दिति । सुलापे सति प्रत्ययलक्षणमाश्रित्य झत्परत्वाच्चेत्यपि बोध्यम् । लिडिति ॥ 'लिह आस्वादने ' क्लिप । हत्डयादिना सुलोप । ह्रस्य टत्वे “वावसाने' इति चर्त्वविकत्प इति भाव । लिङ्भ्यामिति ॥ “स्वादिष्वसर्वनामस्थाने' इति पदत्वात् *झलाञ्जशोऽन्ते' इति जश्त्वमिति भाव । इत्यादीति ॥ लिडभि । लिङ्म्य । लिंहे । लिह । लिह । लिहो । । लिहो । लिहाम् । लिट्त्सु इति ॥ लिह सु इति स्थिते हस्य ट । तस्य जश्त्वेन ड । खरि च' इति चत्र्वरयासिद्धत्वात्तत प्रागेव डस्सि' इति धुट् । नतो डस्य चर्त्वेन ट । बुटश्चत्र्वसम्पन्नस्य तकारस्यासिद्धत्वात् *चयो द्वितीया ' इति न भवति । “न पदान्तात्’ इति तकारस्य ष्टत्वन्न । लिट्सु इति । धुडभावे स्पम् । हस्य ढ । तस्य जश्त्वेन ड । तस्य चर्त्वेन ट । तस्यासिद्धत्वात् 'चयो द्वितीया' इति न । “न पदान्तान्' इति सस्य न ष्टुत्वमिति भाव । दुहधातो क्विबन्तात्सुलोपे दुह् इत्यत्र ढत्व क्वचिदपवदति । दादेर्धातोः ॥ 'हो ढ इत्यत ह इति षष्ठयन्तमनुवर्तते । झलि इति पदस्येति अन्ते इति च पूर्ववदनुवर्तते । धातोरि त्यावर्तते । एक धातुग्रहणमवयवषष्ठयन्त हकारेऽन्वेति धातोरवयवस्य हस्येति । दादे रित्येतत्तु धातोरित्यत्र सामानाधिकरण्येनान्वेति । द आदिर्यस्येति बहुवीहि । धातोरिति