पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/३७

एतत् पृष्ठम् परिष्कृतम् अस्ति


२२२
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता


उपदेशे दादेर्धातोर्हस्य घ' स्याज्झलि पदान्त च उपदेशे ' किम अधोक्' इत्यत्वं यथा स्यात् । दामलिहमात्मन इच्छति दामलिह्यति । तत क्विपि दामलिट् । अत्र मा भूत ।

३२६ । एकाचो बशेो भष् झषन्तस्य स्ध्वोः । (८-२-३७)

धातारवयवा य एकाच इमषन्तस्तदवयवस्य बश स्थान भष स्यात्स कारे ध्वशब्दे पदान्ते च । ' एकाचो धातो ' इति सामानाधिकरण्येनान्वये त्विह न स्यात् । गर्दभमाचष्टे गर्दभयति । तत क्विप् , णिलोप । गर्वप् ।


द्वितीय धातुग्रहणन्तु धातारुपदेशकाल लक्षयति । ततश्च फलितमाह । उपदेशे इत्यादि ना ॥ धातृपदेश काले यो दकारादिर्धातु तदवयवस्य ह्रस्यत्यर्थ । आवृत्तधातुग्रहणलव्धो पदेशग्रहणस्य फल पृच्छति । उपदेशे किमिति ॥ अधोगिति ॥ 'दुह प्रपूरणे' लड अडागम, तिप्, शप्, तस्य लुक्, लघूपधगुण, हल्डयादिना तिपो लोप , “दादे इति हस्य घ , “एकाचो बश ' इति भघ्भावेन दकारस्य धकार । “वावसाने ' इति चर्त्व जश्त्वे इति भाव । यथा स्यादिति ॥ यथेति प्राप्तियोग्यतायाम् । घत्वमत्र प्राप्तियोग्यम् । तत्र उपदेशग्रहणे सत्येव स्यादित्यर्थ । घत्वप्रवृत्तिवेळाया दुह्धातोर्दकारादित्व नास्ति । कृते अडागमे “तदागमास्तद्रहणेन गृह्यन्ते इत्यकारादित्वात् । अतोऽत्र घत्व न स्यादित्यव्याप्ति स्स्यात्। उपदेशग्रहण तु नाय दोष । धत्वप्रवृतिवेळाया दुहेरत्र दकारादित्वाभावेडपि धातृपदेशकाले दादित्वादिति भाव । तदेवमव्याप्तिपरिहारफलमुक्ता अतिव्याप्तिपरिहारफल माह । दामेति ॥ ग्रीवासु गवादिपशुबन्धनार्थरज्जुपर्यायो दामशब्द । 'लिह आस्वादने दाम लेटीति दामलिट् । तमात्मन इच्छतीत्यर्थे 'सुप आत्मन क्यच्' इति क्यचि 'सना द्यन्ता ’ इति धातुत्वात् तिपि शपि दामलिह्यताति रूपम् । ततः क्विपीति ॥ क्यजन्तात् कर्तरि क्विपि अल्लोपे यलोपे च दामलिहशव्दात् सोलोपे 'हो ट ? इति टन्वे 'वावसाने ' इति चर्त्वविकल्पे दामलिट्-दामलिङ्ग इति रूपमित्यर्थ । अत्र मा भूदिति ॥ माडि लुड़ । सर्वलकारापवाद । अत्र घत्व न भवेदित्येतदर्थमप्युपदेशग्रहणम् । कृते तु तस्मिन् घत्वमत्र न भवति । धातूपदेशे दामलिड् इति सुब्धातो पाठाभावादिति भाव । तथाच प्रकृतोदाहरणे सौ दुध इति स्थिते । एकाचो बशो ॥ स् च व् च स्ध्वौ तयोरिति विग्रह । बश इति स्थानषष्ठी । एकाच इत्यवयवषष्ठी । एक अच् यस्येति विग्रह । झषन्तस्येत्यस्य शब्दस्येति विशेष्यम् । एकाच्कस्य झषन्तशब्दस्यावयवो यो बश तस्य भष् स्यादित्यन्वय । “दादे र्धातो ' इत्यतो धातेरित्यवयवषष्ठयन्तमनुवर्तते । तच्च झषन्तशब्देन अन्वेति । पदस्येत्य धिकृतम् । “स्कोस्सयोगाद्यो ? इत्यत अन्ते चेत्यनुवर्तते । तदाह । धातोरवयवः इत्यादिना । ननु 'सम्भवति सामानाधिकरण्ये वेयधिकरण्याश्रयणस्यान्याय्यत्वात्' एकाच् झषन्तो यो धातु तदवयवस्य बश इत्येवान्वय उचित इत्यत आह । एकाचो धातोरित्यादि ॥ गर्दभयतीति । “तत्करोति तदाचष्टे' इति णिजन्तस्य “सना