पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/४०

एतत् पृष्ठम् परिष्कृतम् अस्ति


हकारान्तप्रकरणम्]
२२५
बालमनोरमा ।

सम्प्रसारणादचि पूर्वरूपमेकादेश स्यात् । 'एत्येधत्यूठ्सु' (सू ७३) । विश्वौह । विश्वौहेत्यादि । “छन्दस्येव ण्वि ' इति पक्षे णिजन्ताद्विच् ।

३३१ । चतुरनडुहोरामुदात्तः । (७-१-९८)

अनयोराम् स्यात्सर्वनामस्थाने पर । स चोदान्त ।

३३२ । सावनडुहः । (७-१-८२)

अख्य नुम् स्यात्सौ परे । “आत्’ इत्यधिकारादवर्णात्परोऽयं नुम् । अतो


इत्यत अचीति ‘अमि पूर्व ' इत्यत पूर्व इति चानुवर्तते । “एक पूर्वपरयो ? इत्यधिकृतम् । तदाह । सम्प्रसारणादित्यादिना ॥ विश्व ऊह अस् इति स्थिते आद्गुणमाशङ्कय आह । एत्येधत्यूठस्विति। अनेन गुणापवादो वृद्धिरिति शेष । विश्वौह । विश्चैौहा। इत्यादीति ॥ विश्वाङ्भ्याम्, विश्वाङ्भि । विश्वाङ्भ्य । विश्चौहे। विश्चौह । विश्चौह ।विश्वौहाम्। विश्चौहो। विश्वावाट्त्सु-विश्वावाट्सु । ननु वहश्चेति ण्विविधौ 'छन्दसि सह'इत्यतश्छन्दसीति केचिदनुवर्त यन्ति । तन्मते विश्ववाह्शब्दस्य लोके कथ प्रयोग इत्यत आह । छन्दस्येव ण्विरिति पक्षे णिजन्ताद्विजिति । विश्व वाहयतीत्यर्थे वाहू इति ण्यन्तात् “अन्येभ्योऽपि दृश्यते' इति विचि नेड़्वाशि कृति' इति इडभावे णिलोपे अपृक्तलोपे उपपदसमासे विश्ववाहशब्दो लोके प्रयोगार्ह । किन्तु तस्य ऊठ् न भवतीति ‘अच परस्मिन्' इति णिलोपस्य स्थानिवत्वेन शसि तस्य भत्वाभावात् वाहयते क्विपि विश्ववाहशव्दस्य तु ऊट् निर्वाध एव । 'क्वौ लुप्तम्’ इति णिलोपस्य स्थानिवत्वाभावेन तस्य भत्वानपायात् । अत एव विभाषा पूर्वाह्वापराह्याभ्याम्' इति सूत्रे प्रष्टौह आगत प्रष्ठवाड्रूयमिति लौकिकविग्रहवाक्ये प्रष्ठोह इति प्रयोगस्सङ्गच्छते । क्वचित् पुस्तके छन्दस्येव ण्वि' इति प्रामाणिका, इति पठ्यते । ‘कव्यपुरीष' इत्याद्युत्तरसूत्रे तदनु वृतेरावश्यकत्वादिति तदाशय । अन शकट वहतीत्यर्थे अनसि वहे क्विप् “अनसो डश्च' इति क्विप् । सस्य डश्च । “वचिस्वपियजादीना किति' इति यजादित्वात् वकारस्य सम्प्रसारणम् उकार' । सम्प्रसारणाच्च' इति पूर्वरूपम् । अनडुह् इति रूपम् । ततस्सुबुत्पति. । अनडुह् स् इति स्थिते । चतुरनडुहोः । अनयोरिति ॥ चतुरनडुहोरित्यर्थ. । सर्वनामस्थाने इति ॥ 'इतोऽत्सर्वनामस्थाने' इत्यत सर्वनामस्थाने इत्यनुवृत्तरिति भाव । आमि मकार इत् । मित्वादन्यादच पर । उकारस्य यण् वकार । अनड़्वाह् स् इति स्थिते । सावनडुहः ॥ अस्येति । अनडुह्शब्दस्येत्यर्थ । नुम् स्यादिति ॥ 'आच्छीनद्योर्नुम्’ इत्यतो नुमित्यनु वृत्तरिति भाव । नुमि मकार इत्। उकार उच्चारणार्थ । मित्त्वादन्त्यादच पर । अनङ्वान् ह स् इति स्थितम्। ननु आम्नुमौ एतौ मित्वादन्यादच उकारात् परौ प्राप्तौ । तत्र “चतुरनडुहो ? इत्याम् सर्वनामस्थाननिमित्तकस्सामान्याविहितः । ‘सावनडुह.' इति नुम् तु सर्वनामस्थानविशेषे सौ विहितत्वाद्विशेषविहित. । सच निरवकाशत्वात् सामान्यविहितमाम बाघेत । सोरन्यत्राम्विधेश्च