विशेषविहितेनापि नुमा आम् न बाध्यते । अमा च नुम् न बाध्यते । सोर्लोप । नुम्विधिसामर्थ्यात् * वसुर्स्रसु–' (सू ३३४) इति दत्व न । सन्यागान्तलोपस्या सिद्धत्वान्नलोपो न । अनड्वान्
रितार्थत्वात् । तथाच अनडुन् इति स्यात् । अनड़्वान् इति न स्यात् । किञ्च सम्बुद्धौ हे अनडुह् स् इति स्थिते ‘अम् सम्बुद्धौ' इत्यमागम आमपवादोऽनुपदमेव वक्ष्यते । तत्र ‘सावनडुह इति नुमपि प्राप्त । सच सम्बुद्धावसम्बुद्धौ च विहितत्वात् सामान्यविहित । “अम् सम्बुद्धौ इत्यम् तु सम्बुद्धावेव विहितत्वात् विशेषविहित । सच निरवकाशत्वात् सामान्यविहितन्नुम बाधेत । असम्बुद्धौ सौ नुम्विधेश्चरितार्थत्वात् । ततश्च हे अनट्वन्निति न स्यात् । ‘हो ट' इति ढत्वे हे अनङ्वट् इति स्यात् इत्याशङ्कय आह । आदित्यधिकारादित्यादि सुम न बाध्द्यते इत्यन्तम् ॥ ‘सावनडुह ' इति नुम्विधौ तावत् ' आच्छीनद्यो ' इत्यत आदिति पञ्चम्यन्तमनुवर्तते । अत अनडुह् अवर्णात् परो नुमिति लाभात् विशेषविहितेनापि ‘सावनडुह इति नुमा ‘चतुरनडुहो' इति सामान्यविहित आम् न बाध्द्यते । अवर्णात् परत्वेन विधीयमान नुम प्रति आम उपजीव्यत्वात् । उपजीव्योपजीवकयोर्विरोधाभावेन वाद्यबाधकभावविरहात् । प्रत्युत आमभावे नुम प्रवृत्त्यसम्भवात् । तथा “अम् सम्बुद्धौ' इत्यमा च विशेषविहितेन सावनडुह ' इति नुम् न बाध्द्यते । नुम उपजीवकत्वेन विरोधाभावात् । प्रत्युत अमभावे नुम । ननु “सावनडुह ' इति नुम्विधौ आदित्यनुवर्ततान्नाम । तथापि प्रवृत्त्यसम्भवात् इत्यर्थ आमुपजीवकत्वन्नुमो न लभ्यते । अनडुहि नुमो नकाराकारात् परत्वेऽपि आदित्यनुवृत्तरविरो धादिति चेन्मैवम् । “सावनडुह ' इति नुम्विधौ मित्वादन्त्यादच इत्युपस्थितम् । तत्र च आदित्यनुवृत्तमन्वेति । ततश्चानडुहि य अन्त्यरूप अवर्ण तस्मात् परो नुमिति लभ्यते । नकाराकारस्तु नैवविध इत्यामुपजीवकत्वन्नुमो निर्बाधमेव । एव सम्बुद्धौ अमुपजीवकत्वमपि ज्ञेयम् । क्वचित्पुस्तके आमा च नुम् न बाध्द्यते इति पठ्यते । तत्रेय योजना । ननु बह्वनड़्वाहि कुलानीत्यत्र “नपुसकस्य झलच ' इति नुमपेक्षया परत्वात् आम् स्यात् । कृते त्वामि पुनर्नुम् न भवति । “विप्रतिषेधेन यद्वाधित तद्वाधितमेव' इति न्यायात् इत्यत आह । आमा च नुम् न बाद्धद्यते इति ॥ ‘पुन प्रसङ्गविज्ञानात् सिद्धम्’ इति क्वचिद्विप्रतिषेधेन बाधितस्य पुन रून्मेषात् आमि कृतेऽपि 'नपुसकस्य झलच ’ इति नुम् निर्वाध इति भाव । सोर्लोपः इति । अनड़्वान् ह् स् इत्यत्र हल्डयादिनेति शेष । ननु कृते सुलोपे हकारस्य सयोगान्तलोपे नुमो नकारस्य पदान्तत्वात् 'वसुस्रमुध्वस्वनडुहा द.' इति दत्व कुतो न स्यादित्यत आह । नुम्विधीति । यदि ह्यत्र नुमो नस्य दत्व स्यात्, तर्हि अनड्वाह् इत्यत्र नुमभावेऽपि हस्य दत्वेनैव अनड्वाद् इति सिद्धेः नुम्बिधिरनर्थकस्स्यात् । अतो नुमो नस्य दत्वन्नेति विज्ञायते इति भाव । ननु अनङ्वान् ह् स् इत्यत्र सुलोपे सयोगान्तलोपे च कृते नकारस्य प्रातिपदिका न्तत्वात् पदान्तत्वाच्च ‘न लोप प्रातिपदिकान्तस्य’ इति नलोपः किन्न स्यात् । नच नुम्विधिसाम र्थ्यान्नात्र नलोप इति वाच्यम् । नलोपाभावस्थले सम्बुद्धौ “हे अनडुन्' इत्यत्र नुम्विधेश्चरितार्थ त्वात् । तत्र ‘न डिसम्बुद्वद्यो' इति नलोपप्रतिषेधादित्यत आह । संयोगान्तेति ॥ हकारलोप