पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
हकारान्तप्रकरणम्]
२२७
बालमनोरमा ।

३३३ । अम् सम्बुध्धौ । (७-१-९९)

चतुरनडुहोरम् स्यात्सम्बुद्वैौ । आमोऽपवाद । हे अनङ्वन् । अनङ्वाहौ । अनड्वाह । अनडुह । अनडुहा ।

३३४ । वसुस्रंसुध्वंस्वनडुहां दः । (८-२-७२)

सान्तवस्वन्तस्य स्रंस्वादेश्च द स्यात्पदान्ते । अनडुद्भयामित्यादि । सान्त' इति किम् । विद्वान् । * पदान्ते' इति किम् । स्त्रस्तम् । ध्वस्तम् ।

३३५ । सहेः साडः सः । (८-३-५६)

साड्रूपस्य सहे सस्य मूर्धन्यादेश. स्यात् । तुराषाट्-तुराषाड् ।


स्यासिद्धत्वे सति नकारस्य प्रातिपदिकान्तत्वाभावात् पदान्तत्वाभावाच्च नलोपो नेत्यर्थ । अनङ्वानिति । अनडुह स् इति स्थिते आम्, यण्, नुम्, सुलोप, सयोगान्तलोपश्च । अथ सम्बुद्धौ हे अनडुह् स् इति स्यिते चतुरनडुहो' इत्याभागमे प्राप्ते । अम् सम्बुद्धौ ।। “चतुर नडुहो ? इत्यनुवर्तते । तदाह । चतुरनडुहोरिति । अमो मकार इत् । मित्वादन्त्यादच पर । हे अनङ्वन्निति । अम्, यण, नुम्, सुलोप, सयोगान्तलोपश्च । अनड़्वाहाविति । सर्वनामस्थानत्वादाम् । नुम् तु न । तस्य सावेव विधानान् । अनडुहः इति । शसादावचेि अविकृत एवानडुह्शब्द इति भाव। भ्यामादौ हलि विशेषमाह । वसुस्रंसु ।। वसु प्रत्यय तेन तदन्त गृह्यते । “स्रसु, वसु अवस्रसने' इति धातू । “ससजुषो रु इत्यत स इति लुप्तषष्ठाकमनुवृत्तम् । तेन च वसुर्विशेष्यते । तदन्तविधि । सान्तत्व स्रसुध्वस्वोर्न विशेषणम् । अव्यभिचारात् । नाग्यनडुह असम्भवात् । पदस्यत्यधिकृत बहुवचनेन विपरिणम्यते । “अलोऽन्त्यस्य’ इति तदन्तस्य भवति । फलितमाह । सान्तेत्यादिना ॥ यथासम्भव रुत्वढत्वयोरपवाद । अनडुद्भयामिति । “स्वादिष्वसर्वनामस्थाने' इति पदत्वादिति भाव । इत्यादीति । अनडुद्भि । अनडुन्छ । अनडुभ्य । अनडुहे । अनडुह । अन डुह । अनडुहो । अनडुहाम् । दत्वे “खरि च' इति चर्त्वम् । अनडुत्सु । सान्तेति किमिति ॥ वसोरपि सान्तत्वाव्यभिचारात् प्रश्न । विद्वानिति ॥ विद्वस् स् इति स्थिते

  • अत्वसन्तस्य' इति दीर्घ “उगिदचाम्' इति नुमि सुलोपे सयोगान्तलोपे च रूपम् । अत्र

वसोस्सकारान्तत्वाभावात् न दत्वमिति भाव । स्रस्तं ध्वस्तमिति । क्तप्रत्ययान्तम् । अत्र पदान्तत्वाभावान्न दत्वम् । विद्वासौ, अनङ्वाहावित्याद्यपि प्रत्युदाहार्यम् । अथ तुरासा ह्शब्दात् सोर्हल्डयादिलोपे ह्रस्य ढत्वे कृते विशेषमाह । सहेः साडः सः ॥ 'इकृश्तिौ धातुनिर्देशे' इति “षह मर्षणे' इति धातोरिक्प्रत्यये ‘धात्वादेष्षस्स’इति षस्य सत्वे महिशब्द । षह्धातोरित्यर्थ । साड इति कृतढत्वडत्ववृद्धे अनुकरणम् । तदाह । साड्रूपस्येति