पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३०
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

षट्संज्ञकेभ्यश्चतुरश्च परस्यामो नुडागम स्यात् । णत्वम्, द्वित्वम्। चतुर्ण्णाम्।

३३९ । रोः सुपि । (८-३-१६)

सप्तमीबहुवचने रोरेव विसर्जनीयो नान्यरेफस्य । षत्वम्। षस्य द्वित्वे प्राप्ते ।

३४० । शरोऽचि । (८-४-४९)

अचि परे शरो न द्वे स्त । चतुर्षु । प्रियचत्वा । हे प्रियचत्व , प्रियचत्वारौ । प्रियचत्वार । गौणत्वे तु नुट् नेष्यते ।प्रियचतुराम् । प्राधान्य तु स्यादव । परमचतुर्णाम् ।

इति रेफान्ता।


इति पञ्चमी । “ आमि सर्वनाम्न ' इत्यत आमित्यनुवृत्त षष्ठया विपरिणम्यते । षडिति षट्सज्ञक गृह्यते । नतु षट्शब्द । 'कृत्रिमाकृत्रिमयो । ' इति न्यायात् । तदाह । षट्संज्ञकेभ्य. इत्यादिना ॥ नुटि टक्र इत्, उकार उच्चारणार्थ । टित्वादा द्यवयव । णत्वमिति । 'रषाभ्याम्' इत्यनेनेति शेष । द्वित्वमिति । । “ अचो रहाभ्याम्' इति णकारस्येति शेष । द्वित्वस्यासिद्धत्वात् पूर्व णत्वे कृते ततो णस्य द्वित्वम् । नच ‘पूर्वत्रासिद्धमद्विर्वचने' इति निषेधश्शङ्कय । द्वित्वे कर्तव्ये अन्यदसिद्ध नेति हि तदर्थं । न तु द्वित्वस्याप्यसिद्धत्वन्नेति तदर्थ इति णत्वोत्तरमेव द्वित्वमिति भाव । चतुर् सु इति स्थिते रेफस्य विसर्गे प्राप्ते । रोः सुपि ॥ 'खरवसानयोर्विसर्जनीय ' इत्यतो विसर्जनीय इत्यनुवर्तते । षत्वमिति ॥ * आदेशप्रत्यययो ' इत्यनेनेति शेष । रेफस्य इण्त्वेन तत परत्वादिति भाव । षस्य द्वित्वे इति ॥ “अचो रहाभ्याम्' इत्यनेनेति शेष । शरोऽचि ॥ * अचो रहाभ्याम् इत्यतो द्वे इति “नादिन्याक्रोशे' इत्यतो नेति चानुवर्तते । तदाह । अचि परे इत्यादिना ॥ तथाच चतुर्षु इत्येकषकारमेव रूपम्। नच सत्यपि द्वित्वे “झरो झरि सवर्णे' इति लोपादेव एक षकाररूपसिद्धेरिद व्यर्थमिति वाच्यम्। लोपस्य वैकल्पिकत्वादिति भाव । प्रिया चत्वारो यस्ये ति बहुव्रीहौ प्रियचतुर्शब्दो विशेष्यनिन्न एकद्विबहुवचनान्त । तस्य सौ रूपमाह । प्रियच त्वाः इति ॥ प्रियचतुर् स् इति स्थिते ‘चतुरनडुहो ' इत्युकारादाम् । तस्याङ्गत्वेन तदन्तेऽपि प्रवृत्ते । तत उकारस्य यण् । हृल्डयादिलोपश्चेति भाव । हे प्रियचत्वः इति ॥ “अम् सम्बुद्धौ' इत्यमिति भाव । प्रियचत्वाराविति ॥ सुटि सर्वेनामस्थानत्वादाम् । प्रियचत्वार प्रियचत्वारम्, प्रियचत्वारौ । शसादावाम् न । प्रियचतुर । प्रियचतुरा, प्रियचतुर्भ्याम्, प्रियच तुर्भि । प्रियचतुरे । प्रियचतुर्भ्य । प्रियचतुर । प्रियचतुर , प्रियचतुरो । आमि * षट्चतुर्भ्यश्च ' इति नुटमाशङ्कय आह । गौणत्वे त्विति ॥ षट्चतुर्भ्यश्च' इति बहुवचननिर्देशात् तदर्थप्राधान्य एव नुडिति भाव । प्रियचतुरि । प्रियचतुर्षु । परमचतुर्ण्णामिति कर्मधारय । आङ्गत्वात्तदन्ता दपि नुडिति भाव ॥ इति रान्ता ।