पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति


मकारान्तप्रकरणम्]
२३३
बालमनोरमा ।

३४४ । इदोऽय् पुंसि । (७-२-१११)

इदम इदोऽय् स्यात्सौ पुंसि । सोर्लोप । अयम्। त्यदाद्यत्वं पररूपत्वञ्च ।

३४५ । दश्च । (७-२-१०९)

इदमो दस्य म स्याद्विभक्तौ । इमौ, इमे । “त्यदादे सम्बोधनं नास्ति’ इत्युत्सर्गः ।

३४६ । अनाप्यकः । (७-२-११२)

अककारस्येदम इदोडन् स्यादापि विभक्तौ । “आप्’ इति ‘टा'

इत्यारभ्य सुपः पकारेण प्रत्याहार । अनेन ।

३४७ । हलि लोपः । (७-२-११३)


इति ॥ इदम् स् इति स्थिते । इदोऽय् पुंसि ॥ इद इति स्थानषष्ठी । इदम इत्यनुवर्तते । अवयवषष्ठयेषा । “यस्सौ' इत्यत सावित्यनुवर्तते । तदाह । इदमः इति ॥ इदम्शब्दस्याव यवो य इद् तस्येत्यर्थ । अयम् स् इति स्थिते । सोर्लोपः इति । हल्डयादिनेति शेष । अयमिति ॥ सुलोपे प्रत्ययलक्षणमाश्रित्य मकारस्यानुस्वारस्तु न । मकारविधिसामर्थ्यात् । अन्यथा अनुस्वारमेव विदध्द्यात् । “वर्णाश्रये नास्ति प्रत्ययलक्षणम्’ इति निषेधाच्च । अथ औजसादिषु विशेषमाह । त्यदाद्यत्वमिति ॥ इदम् औ इत्यादिस्थिते 'त्यदादीनाम्’ इति मस्य अकार इत्यर्थ । पररूपत्वमिति ॥ इद अ, औ इति स्थिते ‘अतो गुणे 'इति अकारयोरेक पररूपम् अकार इत्यर्थ । इद औ इत्यादिस्थिते । दश्च ॥ “इदमो म.’ इत्यनुवर्तते । द इति षष्ठी । इदमेो दकारस्य इति लभ्यते । “ अष्टन आ विभक्तौ' इत्यत अतिव्यवहितमपि विभ क्तावित्येतत् मण्डूकप्लुत्या अनुवर्तते । “तदोस्सस्सौ' इत्यत साविति तु सन्निहितमपि नानु वर्तते । सौ इदमो दस्याभावात् । 'यस्सौ' इत्युत्तरसूत्रे सौग्रहणाञ्च । तदाह । इदमो दस्ये त्यादिना ॥ तथाच इम औ इत्यादिस्थिते रामवद्रूपाणीत्याह । इमावित्यादि ॥ त्यदादे स्सम्बोधनं नास्तीति ॥ प्रचुरप्रयोगादर्शनादिति भाव । नन्वेव सति 'तदोस्सस्सौ' इति सूत्रे हे स, इति भाष्यविरोध इत्यत आह । उत्सर्गः इति ॥ प्रायिकमित्यर्थः । टादावचि विशेषमाह । अनाप्यक ॥ अन्, आपि, अक, इति छेद्. । न विद्यते क् यस्य स अक्, तस्य अक ककाररहितस्येत्यर्थ । 'इदमो म ' इत्यत इदम इति “इदोऽय् पुसि' इत्यत. इद इति चानुवर्तते । ‘अष्टन आ विभक्तौ' इत्यतो विभक्ताविति । तदाह । अककारस्येत्या दिना ॥ आपीत्यनेन टाप्डाप्चापा ग्रहणन्नेत्याह । आबित्यादिना ॥ टा इत्याकारमार भ्येत्यर्थ । विभक्तावित्यनुवृत्तिसामर्थ्यात् न टाबादिग्रहणमिति भाव । अनेनेति ॥ इदम् आ इति स्थिते त्यदाद्यत्व पररूपत्वम् । इद अनादेशः । अन आ इति स्थिते इनादेशे गुण इति भावः । भ्यामादौ त्यदाद्यत्वे पररूपे च कृते “अनाप्यक ' इति प्राप्ते । हलि लोपः ॥ आ प्यकः इति पूर्वसूत्रादनुवर्तते । 'इदमो म’ इत्यतः इदमः इति “इदोऽय पुसि' इत्यतः इद इति