पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति


२४४
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

तदन्तविधि प्रयोजयन्ति' (प १७) इति वचनात् । अर्यम्णि-अर्यमणि । पूष्णि-पूषणि ।

३६० । मघवा बहुळम् । (६-४-१२८)

मघवन् शब्दस्य वा * तृ' इत्यन्ताद्श, स्यात् । ऋ इत् ।

३६१ । उगिदचां सर्वनामस्थानेऽधातोः । (७-१-७०)

अधातोरुगितो, नलोपिनोऽञ्चतेश्च, नुमागम स्यात्सर्वनामस्थाने परे । उपधादीर्घ । मघवान् । इह दीर्घे कर्तव्ये संयोगान्तलोपस्यासिद्धत्वं न भवति । बहुलग्रहणात् । तथा च * श्रवन्नुक्षन्-' (उ २५७) इति निपातनान्मघश


सुस्रोता इत्यत्र तु अनर्थक । असन्तत्वाद्दीर्घ । सुशर्मेत्यत्र मन् अर्थवान् सुप्रथिमा इत्यत्र तु अनर्थक । 'मन ' इति न डीप् । अर्यमन्शब्दे पूषन्शब्दे च अल्लोपे विशष इत्याह । अर्य म्णि इत्यादि । “विभाषा डिश्यो ' इत्यल्लोपविकल्प । शसादावचि तु नित्यमल्लोप उक्तप्राय इति भाव । मह्यते पूज्यते इत्यर्थे कनिप्रत्यय । इकार उच्चारणार्थ । ककार इत् । अन् इति प्रत्यश्शिष्यते। धातोरवुगागम । तत्र ककार इत् । उकार उच्चारणार्थ । कित्त्वादन्तावयव । महधातोर्हस्य घश्च इति त्रयन्निपात्यते । “श्चन्, उक्षन्, पूषन्, प्लीहन्, स्नेहन्, मज्जन्, अर्यमन्, विश्वप्सन्, परिज्वन्, मातरिश्वन्, मघवन्, इत्युणादिसूत्रेण निष्पन्ने तस्मिन् मघवन्शब्दे विशेषमाह । मघवा बहुळम् ॥ “अर्वणस्त्रसौ' इत्यत तृ इत्यनुवर्तते । लुप्त प्रथमाकम् । मघवेति तु षष्ठयर्थे प्रथमा । तदाह । मघवन्शब्दस्येत्यादिना ॥ ऋ इदिति ॥ उपदेशेऽजनुनासिक इत्' इति ऋकार इत्सज्ञक इत्यर्थ । ऋ इत्यविभक्तिको निर्देश प्रक्रिया समये न दुष्यति । * अलोऽन्त्यस्य’ इति नकारस्य तकार । सर्वादेशस्तु न । “नानुबन्धकृत मनेकाल्त्वम्’ इति वचनात् । मघवत् स् इति स्थिते । उगिदचाम् ॥ अधातोरिति छेद । उक् इत्, येषान्ते उगित । अच् इति लुप्तनकारस्य “ अञ्चु गतिपूजनयो ' इति धातोर्ग्रह णम् । अधातोरित्युगिद्विशेषणम् । नत्वञ्चते । असम्भवात् । “इदितो नुम् धातो ' इत्यतो नुमित्यनुवर्तते । तदाह । अधातोरुगितः इत्यादिना ॥ नुमि मकार इत् । उकार उच्चार णार्थ । मित्त्वादन्यादच पर । अजिति अचूप्रत्याहारो न गृह्यते , व्याख्यानात्, “नपुस कस्य झलच ' इत्यज्ग्रहणाच्च । अन्यथा 'उगिदचाम्' इत्येव सिद्धे तद्वैयर्थ्यत् वृद्धि गुण इत्यादिनिर्देशाच्च । अधातोरित्येतत्तु अग्रे गोमच्छब्दनिरूपणावसरे मूल एव व्याख्यास्यते । तत्प्रयोजनञ्च तत्रैव वक्ष्यते । उपधादीर्घ. इति ॥ मघवन् त् स् इति स्थिते हल्डयादिना सुलोपे सयोगान्तलोपे च सति “सर्वनामस्थाने च' इति दीर्घे इत्यर्थ । नन्विह दीर्घे कर्त व्ये सयोगान्तलोपस्यासिद्धत्वात् नान्तत्वाभावात् पचन्नित्यादाविव दीर्घो न सम्भवतीत्यत आह । दीर्घे कर्तव्ये इति ॥ बहुळग्रहणादिति ॥ “क्वचित्प्रवृत्ति क्वचिदप्रवृत्ति क्व