पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
नकारान्तप्रकरणम्]
२४९
बालमनोरमा ।

३६६ । इतोऽत्सर्वनामस्थाने । (७-१-८६)

पथ्यादेरिकारस्याकार स्यात्सर्वनामस्थाने परे ।

३६७ । थो न्थः । (७-१-८७)

पथिमथोस्थस्य न्थादेश स्यात्सर्वनामस्थाने परे । पन्था , पन्थानौ , पन्थान' । पन्थानम्, पन्थानौ ।

३६८ । भस्य टेलेंपः । (७-१-८८)

भसज्ञकस्य पथ्यादेष्टेलोप स्यात् । पथ ’ । पथा, पथिभ्यामित्यादि । एवं मन्थाः । ऋभुक्षा । स्त्रिया नान्तलक्षणे डीपि भत्वाट्टिलोप. । सुपथी


ज्यादादीयस ' इति सूत्र आदिति तपरनिर्देशेन इय परिभाषा ज्ञाप्यते । “भाव्यमानेन सव र्णाना ग्रहणन्न' इत्येव भाष्ये पाठात् । अणुदित्सूत्रभाष्येऽप्यण्ग्रहणरहिताया एवास्या परिभा षाया पाठदर्शनाच्चेत्यास्तान्तावत् । नकारस्य आत्त्वे पथि आ स् इति स्थिते । इतोऽत् पथिमथ्यृभुक्षाम् इत्यनुवर्तते । इत इति तपरकरण स्पष्टार्थम् । पथ्यादिषु त्रिषु दीर्घप्लुतयो रसम्भवात् । भाव्यमानत्वादेव सवर्णाग्राहकत्वे सिद्धे अदिति तपरकरणमपि स्पष्टार्थमेव । तदाह । पथ्यादेरित्यादिना ॥ पथ आ स इति स्थिते । थो न्थः ॥ थ, न्थ, इति छेद । थ इति षष्ठी । आदेश अकार उच्चारणार्थ । पथिमथिग्रहणमनुवर्तते । ऋभुक्षिग्रह्णन्निवृत्तम् । तत्र थकाराभावात् “इतोऽत्सर्वनामस्थाने' इत्यतस्सर्वनामस्थानग्रहणमनुवर्तते । तदाह । पथि मथोरित्यादिना ॥ पन्थाः इति ॥ नकारस्य आत्वे थकारस्य न्थादेशे पन्थ आ स् इति स्थिते सवर्णदीर्घे रुत्वविसर्गाविति भाव । पन्थानाविति ॥ पथिन् औ इति स्थिते सावि त्युक्तेर्नत्त्वम्।‘इतोऽत्'इति इकारस्यात्त्वे थकारस्यन्थादेशे ‘सर्वनामस्थाने च' इति दीर्घे रूपमिति भावः । एव पन्थान् । पन्थानम्, पन्थानौ । शसादावचि विशेषमाह । भस्य टेर्लोपः । प थ्यादेरिति ॥ पथिमथ्यृभुक्षाम् इत्यनुवर्तते इति भाव । पथः । पथेति ॥ पथिन् अस् पथिन् आ इति स्थिते इने लोपे रूपद्वयमिति भाव । पथिभ्यामिति ॥ नलोपे रूपम् । इत्यादीति ॥ पथिभि । पथे । पथिभ्य । पथ, पथेो, पथाम् । पथि, पथो, पथिषु । एवं मन्थाः, ऋभुक्षाः इति ॥ मन्थदण्डवाची मथिन्शब्द । तस्य आत्त्वम्, अत्त्वं, न्था देश, टिलोपश्च । मन्थाः, मन्थानौ, मन्थान । मन्थानम्, मन्यानौ, मथ । मथा, मथिभ्याम् । मथे । मथ । मथो । मथाम् । मथि । मथिषु । ऋभुक्षिन्शब्दतु इन्द्रवाची । तत्र 'थो न्थ इति वर्जमात्त्वादि भवति । षात्परत्वाष्णत्वञ्च । ऋभुक्षा, ऋभुक्षाणौ इत्यादि । यत्तु अत्र पन्थानमात्मन इच्छति पथीयति “सुप आत्मन क्यच्, न क्ये' इति पदत्वात् नलोप । अकृत्सार्वधातुकयोः' इति दीर्घ । “सनाद्यन्ता' इति धातुत्वम् । तत क्विप्। अलोपयलोपौ । एकदेशविकृतस्यानन्यत्वात् 'पथिमथि' इत्यात्त्व, 'थो न्थ । इतोऽत्' इत्यत्वन्तु तपरकरणान्न 82