पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५८
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

र्देश । तेनेह न । युज्यते समाधत्ते इति युक् । “युज समाधौ' दैवादिक आत्मनपदी । संयोगान्तलोप । खन्, खञ्जौ, खञ्ज , इत्यादि । * त्रश्च (सू २९४) इति षत्वम् । जश्त्वचर्त्वें राट्-राड्, राजौ, राज । राट्त्सु राट्सु । एव विभ्राट् । देवेट्, देवेजौ, देवेज । विश्वसृट्-विश्वसृड् , विश्वसृजौ, विश्वसृज. । इह सृजियज्यो: कुत्वं नेति क्लीबे वक्ष्यते । परिमृट । षत्वविधौ राजिसाहचर्यान् “टु भ्राजृ दीप्तौ' इति फणादि रेव गृह्यते । यस्तु “एजृ भ्रेजृ भ्राजू दीप्तौ' इति तस्य कुत्वमेव । विभ्राकृ विभ्राग् । विभ्राग्भ्याम् इत्यादि । “परौ व्रजे. ष पदान्ते' (उ २१७) । परावुपपदे ब्रजे क्विप्स्याद्दीर्घश्च पदान्तविषये षत्वं च । परित्यज्य सर्व व्रजतीति परिव्राट्, परिव्राजेौ, परिव्राज । रस्कनया ग्रहणम् । नत्विका निर्देश । व्याख्यानादित्यर्थ । तत किमित्यत आह । तेनेति ॥ ‘खजि गतिवैक्लव्ये' । क्विप्, इदित्वान्नुम् । ‘नश्वापदान्तस्य’ इत्यनुस्वार , परसवर्णे लकार । स्वञ्ज्शब्द । तस्य विशेषमाह । संयोगान्तेति ॥ हल्डयादिना सुलोपे जकारस्य सयागान्त लोप । ततो निमित्तापायात् अनुस्वाररपरसवर्णयोर्निवृत्ति । खन् इति रूपमित्यर्थ । “ अनिदि ताम्’ इति नलोपतु न। इदित्वात् । ‘राज़ दीप्तौ' इत्यस्मात् क्विपि राज्शब्द । तस्य विशेषमाह । व्रश्चेति ॥ हल्डयादिना सुलोपे ‘व्रश्च' इति षत्वम् । जश्त्वेन डकार । ‘वावसाने' इति चर्त्ववि कल्प । भ्यामादौ 'खादिषु' इति पदान्तत्वात् षत्व जश्त्वञ्च । राङ्म्यामित्यादि। ‘डस्सि धुट्’ इति विकल्पम्मत्वा आह । राट्त्सु-राट्स्विति ॥ एवं विभ्राडिति ॥ राज्शब्दवत् षत्वादीत्यर्थ । 'टु भ्राजू दीप्तौ' क्विप् । विशिष्य भ्राजत इति विभ्राट् । देवान् यजत इति विग्रहे क्विपि यजादित्वातू ‘वचिस्वपि' इति सम्प्रसारणम् । आद्गुण । विश्वस्डिति ॥ ‘सृज विसर्गे' क्विपि ‘व्रश्च' इति षत्वादि। ननु क्विबन्तेऽपि देवेज्शब्दे विश्वसृज्शब्दे च क्विन् प्रत्ययो यस्मा दिति बहुव्रीह्याश्रयणादृत्विक्शब्दवत् कुत्व कुतो न स्यादित्यत आह । इहेति ॥ ‘सृजिदृशो इति सूत्रे काम्यच्सूत्रे च विश्वसृड्भ्यामिति उपयट्काम्यतीति च भाष्यप्रयोगात् 'क्विन्प्रत्यय स्य'इति कुत्वन्नेत्यर्थ । परिमृडिति। मृजूशुद्धौ'क्विप्। 'क्डिति च' इति निषेधात् ‘मृजेर्वृद्धि इति न भवति । “व्रश्च' इति षत्वम् । परिमाष्टांति परिमृट् । अथ विभ्रागिति कुत्व साधयितु माह । षत्वविधाविति ॥ ब्रश्चादिसूत्र इत्यर्थ । अथ परिव्राज्शब्द व्युत्पादयति । परौ व्रजे. ॥ औणादिकसूत्रमेतत् । 'क्विब्वचिप्रच्छि' इत्यादिपूर्वसूत्रात् क्विबिति दीर्घ इति चानु वर्तते । पदान्त इति ष इत्यनेनैव सम्बध्द्यते नतु क्विब्दीर्घाभ्यामपि, व्याख्यानात् तदाह । परावुपपदे इत्यादिना ॥ षत्वञ्चेति ॥ 'चो कु ' इत्यस्यापवाद इति भाव. । विश्वस्मिन् राजते इत्यर्थे 'सत्सूद्विष' इत्यादिना क्विपि उपपदसमासे विश्वराज्शब्द ।