पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
जकारान्तप्रकरणम्]
२५९
बालमनारमा ।

३७९ । विश्वस्य वसुराटोः । (६-३-१२८)

विश्वशब्दस्य दीर्घोऽन्तादेश स्याद्वसै राट्शाब्दे च परे । विश्व वसु यस्य स विश्वावसु । राडिति पदान्तोपलक्षणार्थम् । चर्त्वमविवक्षितम् । विश्वाराट्-विश्वाराड्, विश्वराजौ, विश्वराज । विश्वाराड्भ्याम इत्यादि ।

३८० । स्कोः संयोगाद्योरन्ते च । (८-२-२९)

पदान्त माल च पर य सयोगस्तदाद्यो सकारककारयोर्लोप स्यात् । भृट्-भृङ् । सस्य श्चुत्वन श. । तस्य जश्त्वेन ज । भृज्जौ, भृज्ज ।


तस्य विशेषमाह । विश्वस्य वसुराटोः ॥ ‘ढ़लोपे' इत्यतो दीर्घ इत्यनुवर्तते । तदाह । विश्व शब्दस्येति ॥ विश्व वस्विति ॥ “वसुर्ग्रहेऽग्नौ योक्रेऽशौ वसुतोये धने मणौ” इति कोश । विश्वावसुरित्युदाहरण प्रासङ्गिकम् । “आदित्यविश्वसव ” इत्यमरप्रयोगे तु न दीर्घ । ‘नरे सज्ञाया म्’ इत्यतस्सज्ञाग्रहणापकर्षात् । ननु राट्शब्दस्य कृतचर्त्वस्य निर्देशात् जश्त्वे सति दीर्घो न स्यादित्यत आह । • राडिति । अविवक्षितमिति । व्याख्यानादिति भाव । विश्वाराट्-विश्वाराडिति ॥ 'ब्रश्च' इतेि षत्वम् । जश्त्वचत्वें । चर्त्वनिर्देशस्य प दान्तोपलक्षणत्वात् जश्त्वपक्षेऽपि दीर्घ । यद्यपि त्रैपादक *त्रश्च ' इति षत्व “चो कु इति कुत्वात्परम् । तथापि चवर्गोन्तव्रश्चादिविषये षत्वमपवादत्वान्नासिद्धम् । “ अपवादो वचनप्रामाण्यात्' इति । विश्वरराजाविति ॥ अपदान्तत्वान्न दीर्घ इति भाव । * भ्रस्ज पाके' क्विप् । ‘प्रहिज्या’ इति सम्प्रसारणम् । रेफस्य ऋकार । ‘सम्प्रसारणाञ्च' इति पूर्वरूपम् । भ्रस्ङ्ज्शब्द । ततस्सुबुत्पत्ति । तत्र विशेषमाह । स्कोः संयोग ॥ पदस्येत्यविकृतम् । चकारात् ‘झलो झलि’ इत्यतो अलीत्यनुवर्तते । पदस्यान्ते इति झलीति च सयोगेत्यनेन सम्बद्धद्यते । सयोगेति लुप्तषष्ठीक पृथक्पदम् । स् च क् च स्कौ, तयेरिति विग्रह । ‘सयोगान्तस्य लोप इत्यतो लोप इत्यनुवर्तते । तदाह । पदान्ते इत्यादिना ॥ अत्र काष्ठशक स्थातेत्यत्र झल्परसयोगादित्वात् ककारस्य लोपप्राप्तौ तन्निवृत्त्यर्थ वार्तिक पठितम् । झलीत्यपहाय सडीति वक्तव्यमिति । सनस्सकारमारभ्य महिडो डंकारेण प्रत्याहार । तदिद वार्तिक भाष्ये प्रत्या ख्यातम् “काष्ठशगेव नास्ति कुत काष्ठशक् स्थाता ” इति । ककारान्तेभ्यो नास्ति क्विप् । अनभिधानादित्याशय । नच पृथक्स्थातत्यत्र ककारस्य लोपनिवृत्तये “सडि' इति वार्तिक मावश्यकमिति वाच्यम्। “तत्प्रत्याख्यानपरभाष्यप्रामाण्यादेवञ्जातीयकसयोगादिलोपप्राप्तियोग्यो दाहरणानामप्रयोगावगमात्” इति शब्देन्दुशेखरे स्पष्टम् । भृट्-भृडिति ॥ भ्रस्ज स् इति स्थिते हल्डयादिलोपे ‘स्को ' इति सकारलोपे जकारस्य व्रश्चादिना षत्वे जश्त्वचत्वें इति भाव । यद्यपि जकारस्य सयोगान्तलोपेऽपि सकारस्य 'व्रश्च' इति षत्वे जश्त्वचर्त्वयो मृट्-भृड् इति सिद्धद्यति । तथापि न्याय्यत्वादिइ सयोगादिलोप एव भवति । सस्येति ॥ भ्रस्ज़ औ