पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/७८

एतत् पृष्ठम् परिष्कृतम् अस्ति


दकारान्तप्रकरणम्]
२६३
बालमनोरमा ।

णत्वविवक्षया । तेन मपर्यन्ताच्छेषस्य । अद' इत्यस्य लोप म्यात् । स च परो ऽप्यन्तरङ्गे अता गुण कृत प्रवर्तते । अदन्तत्वाभावान्न टाप् । परमत्वम् परमाहम् । अतित्वम् । अत्यहम् ।

३८६ । युवावौ द्विवचने । (७-२-९२)


इति शब्दस्वरूपपरत्वान्नपुसके । शब्दस्वरूपपरत्वादेव च “त्यदादीनि सर्वैर्नित्यम्' इत्येक शेषोऽपि न । अत एव भाष्यप्रयोगात् । तेनेति ॥ अलिङ्गत्वेनेत्यर्थ । ननु “डे प्रथमयो इति सूत्रे भाष्ये पुसि युष्मानस्मानित्यत्र ‘तस्माच्छसो न पुमि’ इति नत्वस्य सिद्धन्वात् ‘शसा न' इति नत्वविविधैवैयर्थ्यमाशङ्कय स्त्रियान्नपुसके च युष्मान् ब्राह्मणी पश्य, अस्मान् ब्राह्मण। पश्य, युष्मान् ब्राह्मणकुलानि पश्य, अस्मान् ब्राह्मणकुलानि पश्य, इत्यत्र नत्वार्थ 'शसो न इति नत्वविधानमित्यादि स्थितम् । किञ्च स्वमोर्नपुसकादित्यधिकारे नेतराच्छन्दसि ' इति सूत्रे नपुसकादेशेभ्यो युष्मदस्मदोर्विभक्तयादेशा विप्रतिषेधेन' इति वार्तिकतद्भाष्ययो शिशीलुड्नु म्भिर्नपुसकाविहितैस्त्वाहादियुष्मदस्मदादेशाना विप्रतिषध उपन्यस्त । अत युष्मदस्मदो रलिङ्गत्वमनुपपन्नम् । “सम्म आकम्' इति सूत्रे “ अलिङ्गे युष्मदस्मदी” इति भाष्यन्तु “पुस्त्री नपुसकलिङ्गपदान्तरसम्मभिव्याहार विना लिङ्गविशेषो युष्मदस्मच्छब्दाभ्यान्न प्रतीयते इत्येव म्परम्” इति तत्रैव भाष्ये स्पष्टम्। एवञ्च युष्मदम्मदोस्त्रीलिङ्गमत्वात् टाप् दुर्वार इत्यस्वरसादाह । यद्वेति ॥ अधिकरणत्वविवक्षयेति ॥“विवक्षात कारकाणि भवन्ति’ इति वक्ष्यमाणत्वादिति भाव । यदि हि शेषे इति विभक्तिविशेषण स्यात् तर्हि व्यर्थमेव स्यात् । आत्वयत्वाभ्या विशेपविहिताम्या स्वविषये लोपस्य बाधसम्भवात् । अत शेषस्येत्यर्थ आस्येय । तत किमित्यत आह । तेनेति ॥ शेषस्य स्थाने इत्यर्थाश्रयणेनेत्यर्थ । मपर्यन्तादिति ॥ मपर्य न्तस्येत्यपकृष्ट पञ्चम्यन्ततया विपरिणम्यत इति भाव । एतच 'त्यदादीनाम ' इति सूत्रे टिलोपष्टावभावार्थ कर्तव्य इति स स्मृत । अथवा शेषसप्तम्या शेषे लोपो विधीयत’ इति वार्तिक तद्राष्ययो स्पष्टम् । नच मपर्यन्तस्य त्व इति अह इति चादेशे कृते शिष्टस्य अद् इत्यस्य मपर्यन्तात्परत्वन्नास्तीति वाच्यम् । त्वाहादेशयो कृतयो. अदो लोपप्रवृतिवेळाया मपर्य न्ताच्छेषत्वाभावेऽपि त्वाहादेशप्रवृत्ते पूर्वकालिकपर्यन्तत्वमादाय तदुपपत्ते । नन्वस्तु मपर्य न्ताच्छेषस्य अद्शब्दस्य लोप । तथापि त्व अद्, अम् अह अद् अम् इति स्थिते पररूपा पेक्षया परत्वादो लोपे अदन्तत्वात् टाप् दुर्वार इत्यत आह । स चेति । शेष लोप इत्यर्थ । अन्तरङ्गे इति ॥ “अतो गुणे' इत्यस्य बहिर्भूतविभक्तयपेक्षलोपापेक्षया अन्तरङ्गत्व बोध्द्यम् । अदन्तत्वाभावादिति । त्व अद् अह अद् इत्यत्र पररूपे सति त्वद् अहृद् इति स्यिते अदो

लोपे त्व् अहू इत्यनयोरदन्तत्वाभावान्न टाबित्यर्थ । परमत्वमिति ॥ “डे प्रयमयो ' इत्यादी नामाङ्गत्वात् तदन्तविविरिति भावः । अतित्वमिति ॥ “डे प्रथमयो ' इत्यादीना गौणे अप्रवृत्तौ मानाभावादिति भाव । युष्मद् औ अस्मद् औ इति स्थिते ‘डे प्रथमयो' इत्यमि कृते युष्मद् अम् अस्मद् अम् इति स्थिते । युवावौ द्विवचने ॥ ‘युष्मदस्मदोरनादेशे' इत्यतो