पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६४
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

द्वयोरुक्तौ युष्मदस्मदोर्मपर्यन्तस्य युवावै स्तो विभक्तौ ।

३८७ । प्रथमायाश्च द्विवचने भाषायाम् । (७-२-८८)

इह युष्मदस्मदोराकारोऽन्तादेश स्यात् । युवाम् । आवाम् । “ औडि' इत्येव सुवचम् । “ भाषायाम्' किम् । युवं वस्राणि । मपर्यन्तस्य (सू ३८३) किम् । साकच्कस् य मा भूत् । युवकाम् । आवकाम् । “ त्वया ' * मया' इत्यत्र ’त्व्या' ’म्या' इति मा भूत् । “युवकाभ्याम्' * आवकाभ्याम्' इति च न सिध्ध्येत् ।


युष्मदस्मदोरित्यनुवर्तते । मपर्यन्तस्येत्यधिकृतम् । उक्तिर्वचनम् । द्वयो वचन द्विवचनम् । तत्र समर्थयोरित्यर्थ । द्वित्वविशिष्टार्थवाचिनोरिति यावत् । नतु द्विवचनसज्ञके प्रत्यये परे इत्यर्थे । वचनग्रहणसामर्थ्यात् । अन्यथा द्वित्वे इत्येव ब्रूयात् । “ अष्टन आ विभक्तौ' इत्यतो विभक्तावित्यनुवृत्तौ सत्या द्वित्वे या विभक्तिस्तस्या परत इत्यर्थलाभात् । तदाह । द्वयोरुक्ता वित्यादिना । द्वयोरुक्तावित्याश्रयणस्य फलमग्रे मूल एव स्पष्टीभविष्यति । युव अद् आव अद् इति स्थिते 'शेषे लोप ' इति प्राप्ते । प्रथमायाश्च द्विवचने भाषायाम् ।। ‘अष्टन आ विभक्तौ' इत्यत आग्रहणमनुवर्तते युष्मदस्मदोरनादेशे * इत्यतो युष्मदस्मदो इति च । तदाह । इहेति ॥ भाषाया प्रथमाद्विवचने परे इत्यर्थ । भाषायामित्यस्य तु लौकिक व्यवहारे इत्यर्थ । युवाम् । आवामिति । युव अद्, अम् आव अद् अम् इत्यत्र दकारस्य आत्वे पूर्वयोरकारयो पररूपे ततस्सवर्णदीर्घे 'अमि पूर्व ' इति भाव । औङीत्येव सुवचमिति । द्वितीयाद्विवचनेऽयात्वस्य इष्टत्वादिति भाव । युवं वस्त्राणीति ॥ युष्मद् औ, इति स्थिते मपर्यन्तस्य युवादेशे सति शेषलोपे रूपम् । मपर्यन्तस्य किमिति । युष्मदस्मदोस्समस्तयोरेव युवावादेशयो कृतयोरपि आत्वे पूर्वरूपे च युवाम् आवामिति सिद्धेरिति प्रश्न । साकच्कस्येति । ‘अव्ययसर्वनान्नाम्' इति टे प्रागकचि युष्मकद् औ अस्मकद् औ इति स्थिते 'डे प्रथमयो ' इत्यमि 'युवावौ द्विवचने' इति समस्तयोस्स्साकच्क योस्तन्मद्यपतितन्यायेन युवावादेशयो 'प्रथमायाश्च' इति दकारस्य आत्वे अमि पूर्वे च युवाम् आवाम् इत्येव स्यात् । ककारो न श्रूयेत । अतो मपर्यन्तस्येति वचनमित्यर्थ । ननु समुदाया देशत्वेऽपि “ओकारसकारभकारादौ सुपि सर्वनाम्नष्टे प्रागकच्, अन्यत्र सुबन्तस्य टे प्राक् इति व्यवस्थाया वक्ष्यमाणत्वाद्युवामावामिति परिनिष्ठितसुबन्तयोष्टे प्रागकचि युवकाम् आव कामिति सिध्द्यत्येव । अत्र साकच्कयोर्युवावादेशाप्रसत्तेरित्यस्वरसादाह । त्वया, मयेति ॥ यदि मपर्यन्तस्येति न स्यात् तदा 'त्वमावेकवचने' इति त्वमादेशौ समस्तयास्याताम् । ततश्च नृतीयैकवचने युष्मद् आ, अस्मद् आ इति स्थिते समस्तयो स्थाने त्वमादेशयो त्व आ म आ इति स्थिते ' योऽचि' इति अकारस्य यत्व त्व्या म्या इति स्यात् । अतो 'मप र्यन्तस्य' इति वचनम् । सति तस्मिन् मपर्यन्तस्य त्वमादेशयो कृतयो त्व अद् आ म अद् आ इति स्थिते अकारयो पररूपे दकारस्य यत्वे च त्वया मया इति सिद्धद्यतीत्यर्थे ।