पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/८३

एतत् पृष्ठम् परिष्कृतम् अस्ति


२६८
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता


३९५ । भ्यसो भ्यम् । (७-१-३०)

भ्यसो भ्यम् अभ्यम् वा आदेश स्यात् । आद्य शेषे लोपस्यान्त्यलोपत्व एव । तत्राङ्गवृत्तपरिभाषया एत्व न। अभ्यम् तु पक्षद्वयेऽपि साधु युष्मभ्यम् । अस्मभ्यम् ।

३९६ । एकवचनस्य च । (७-१-३१)

आभ्या पञ्चम्येकवचनस्य अत् स्यात् । त्वत्। मत् । 'डसेश्च' इति सुवचम् । युवाभ्याम् । आवाभ्याम् ।

३९७ । पञ्चम्या अत । (७-१-३२)

आभ्यां पञ्चम्या भ्यसोऽत्स्यात् । युष्मत् । अस्मत् ।


न्तेऽपि प्रवृत्तिरिति भाव । अतितुभ्यमिति । गौणत्वे तदप्रवृत्तौ मानाभावादिति भाव । युवाभ्याम् । आवाभ्यामिति ॥ तृतीयाद्विवचनवदिति भाव । भ्यसो भ्यम् ॥ भ्यम् अभ्यमिति वा छेद । तदाह । भ्यस. इति ॥ युष्मदस्मद्भ्या परस्येति शेष । “युष्मदस्म भ्या डसोऽश्’ इत्यतस्तदनुवृत्ते । ननु भ्यमादेशपक्षे 'शेषे लोप ' इत्यदो लोपे युष्मभ्य मस्मभ्यमिति मकारादकारो न श्रूयेतेत्यत आह । आद्य. इति ॥ लक्ष्यानुरोधादिह अन्त्य लोपपक्ष एवाश्रयणीय । नन्वन्त्यलोपपक्षे दकारस्य लोपे सति “बहुवचने झल्येत्' इत्येत्व स्यादित्यत आह । तत्राङ्गवृत्तेति ॥ “अङ्गवृत्ते पुनर्वृत्तावविधि ' इति परिभाषयेत्यर्थ । अङ्गे वृत्त वर्तन यस्य तत् अङ्गवृत्त, तस्मिन् कार्ये प्रवृत्ते सति अन्यस्य अङ्गकार्यस्य वृत्तौ प्रवृत्तिविषये विधि विधिर्नास्तीत्यर्थ । प्रकृते च शेषलोपे अङ्गकायें प्रवृत्ते सति, अन्यत् अङ्गकार्यमेत्वन्न भवतीति भाव । अभ्यम् त्विति ॥ अभ्यमादेशस्तु टिलोपपक्षे अन्त्यलोपपक्षे च अनुकूल इत्यर्थ । तत्र अन्त्यलोपपक्षे अभ्यमो झलादित्वाभावात्तस्मिन् परे एत्वन्न । किन्तु पररूपे सति युष्मभ्यम् अस्मभ्यम् इति सिध्द्यति । टिलोपपक्षे तु अङ्गस्य अदन्तत्वाभावा दपि एत्वन्न । अथ पञ्चमी विभक्ति । एकवचनस्य च ॥ *युष्मदस्मद्भया डसोऽश्’ इत्यतो युष्मदस्मयामित्यनुवर्तते । “पञ्चम्या अत्' इत्यत आदिति च । तदाह । आभ्या मिति ॥ युष्मदस्मद्यामित्यर्थ । अनेकात्त्वात् सर्वादेश । “न विभक्तौ' इति तस्य नेत्वम् । त्वत् । मत् इति ॥ युष्मद् अस्, अस्मद् अस् इति स्थिते त्वमादेशयो कृतयो डसे अदादेशे सति पररूपे ‘शेषे लोप 'इति टिलोप । अन्यलोपपक्षे दकारलोपे सति त्रयाणामकाराणा पररूपमिति भाव । सुवचमिति ॥ लाघवादिति भाव । पञ्चम्या अत्॥ युष्मदस्मद्भद्या डसोऽश्’ इत्यता युष्मदस्मभ्यामित्यनुवर्तते।'भ्यसो भ्यम्' इत्यतो भ्यस इति । “पञ्चम्या अत्' इति च सूत्रम् । तदाह । आाभ्यामिति । युष्मदस्मद्भद्यामित्यर्थ । युष्मत् । अस्मदिति । युष्मद् भ्यस्, अस्मद् भ्यस्, इति स्थिते यस म्यमादेश शेषलोपश्च । अथ षष्ठी विभक्तिः ।