पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति


२७०
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

समस्यमाने व्द्येकत्ववाविनी युष्मदस्मदी ।
समासार्थोऽन्यसङ्खयश्चेत्स्तो युवावौ त्वमावपि ।।
सुजस्डेडस्सु परत आदेशा स्यु सदैव ते ।
त्वाहौ यूयवयौ तुभ्यमह्यौ तवममावाप ।।
एते परत्वाद्वाधन्ते युवावौ विषये स्वके ।
त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधत ।।


न्तस्य त्वमादेशयो 'योऽचि' इति दस्यत्वे पररूपे रूपमिति भाव । युवयोः आवयोरिति । प्राग्वत्। युष्मासु । अस्मास्विनि ॥ *युरूमदस्मदोरनादेशे' इति दकारस्य आत्वे सवर्णदीर्घ इति भाव । “त्वमावेकवचने' इत्यत्र 'युवावो द्विवचने' इत्यत्र च एकवचनद्विवचनशव्दौ यौगिकौ नतु प्रत्ययपराविति स्थितम् । तत्फल लोकचतुष्टयेन सङ्गह्णाति । समस्यमाने इति ॥ तत्र प्रथमश्लोके चेदित्यनन्तरम् अपीत्यध्याहार्यम्। यदि समस्यमाने युष्मदस्मदी एकत्ववाचिनी तदा समासार्थ अन्यसङ्खयश्चेदपि युवावौ त्वमावपि स्त इत्यन्वय । त्वाम् मा वा अतिक्रान्त अतिक्रान्तौ, अतिक्रान्ता इति, युवामावावा अतिक्रान्त, अतिक्रान्तौ, अतिक्रान्ता इति च विग्रहे अत्यादय क्रान्ताद्यर्थे द्वितीया' इति समास लभमाने युष्मदस्मदी" द्वित्वैकत्वान्यतरविशि ष्टार्थवाविनी यदा, तदा समासार्थ मुख्यविशष्यभूत अन्यसङ्खयश्चेदपि युष्मदस्मदर्थगतसख्या पेक्षया अन्यसङ्खयाकश्चदपि युष्मदस्मदर्थगतद्वित्वे युवावौ तदर्थगतैकत्वे त्वमौ च द्विवचनैक वचनप्रत्ययपरत्वाभावेऽपि भवत । युवावादेशविधौ द्विवचनशब्दस्य त्वमादेशविधौ एकवचन शब्दस्य च यौगिकत्वाश्रयणात्। एकवचने प्रत्यये परतस्त्वमादेशौ द्विवचने प्रत्यये परतो युवावा वादेशौ इत्यर्थाश्रयणे तु त्वाम् मा वा अतिक्रान्तौ, अतिक्रान्ता इति विग्रहे आतियुष्मद्शब्दे अत्यस्मद्शब्दे च युष्मदस्मदोर्द्विवचन बहुवचने च प्रत्यये परे त्वमो न स्याताम् । तथा युवा मावा वा अतिक्रान्त, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहे युष्मदस्मदोरेकवचने बहुवचने च प्रत्यये परे युवावौ न स्यातामित्यव्याप्तिस्स्यादित्यर्थ । ननु युध्मदस्मदोर्व्यर्थकत्वे युवावौ एकार्थ कत्वे तु त्वमौ इति किं सार्वत्रिकम् । नेत्याह । सुजस्ङेङस्सु इति । द्वितीयश्लोकेऽस्मिन् उत्तरार्धे त्वाहावित्यादितत्तत्सूत्रप्रतीकग्रहणम् । इतीत्यनन्तर ये इत्यध्याहार्यम् । “त्वाहौ सौ यूयवयौ जसि, तुभ्यमह्यौ डयि, तवमौ उसि’ इति सुजस्डेडस्सु ये आदेशा विहिता ते अतियुष्मदत्यस्मच्छब्दाभ्याम् एकद्विबह्वर्थवृत्तित्वेऽपि स्युरित्यर्थ । ननु तत्रापि ह्यर्थकत्वे युवावौ एकार्थकत्वे त्वमौ कुतो नेत्यत आह । एते इति । तृतीयश्लोके पूर्वार्धमेक वाक्यम् । एते त्वाहादय, स्वके स्वीये विषये सुजसादौ, युवावौ बाधन्ते । कुत, परत्वात् । युवावापेक्षया एतेषा परत्वादित्यर्थ । नन्वस्त्वेव त्वाहादिभिर्युवावयोर्बाध । त्वमौ तु तेभ्य परौ कथ तैर्बाध्येतामित्यत आह । त्वमावपीति । पूर्वेति । विप्रतिषेधे सति पूर्व पूर्वेविप्रतिषेध । “सुरसुपा' इति समास । तृतीयान्तात्तसि विप्रतिषेधसूत्रे परशब्दस्य इष्टवाचितया क्वचिद्विप्रतिषेधे पूर्वकार्यस्य प्रवृत्त्याश्रयणादिति भाव । 'प्रत्ययोत्तरपदयोश्च ।