पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
दकारान्तप्रकरणम्]
२७१
बालमनोरमा ।


व्द्येकसङ्खय समासार्थो बह्वर्थे युष्मदस्मदी ।
तयोरव्द्येकतार्थत्वान्न युवावौ त्वमां न च ।।'

त्वाम् मा वा अतिक्रान्त इति विग्रहे अतित्वम् । अत्यहम् । अतित्वाम् । अतिमाम् । अतियूयम् । अतिवथम् । अतित्वाम् । अनिमाम् । अतित्वाम् । अतिमाम् । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वाभि । अतिमाभि । अतितुभ्यम् । अतिमह्यम् । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वम्यम् । अतिमभ्यम् । डासिभ्यसो । अतित्वत् । अतित्वत्। अतिमत् । अतिमत् । भ्यामि प्राग्वत्। अतितव । अतिमम । अतित्वयो । अतिमयो । अतित्वाकम् । अतिमाकम् । अतित्वयि । अतिमयि ।


इति सूत्रभाष्ये तु ‘त्वमावेकवचने' इति सूत्रे शेष इत्यनुवर्त्य “सुजस्डेडसभिन्नविभक्तिषु' इति व्याख्यातम् । तदेव “त्वमावेकवचने, युवावा द्विवचने' इत्यत्र एकवचनद्विवचनशब्दयोर्यो गिकत्वाश्रयणस्य अव्याप्तिपरिहारार्थत्वमुक्ता अतिव्याप्तिपरिहारार्थत्वमाह । हयेकसङ्खयः इति ॥ चतुर्थश्लोकेऽस्मिन् यदा तदेत्ययाहार्यम् । यदा युष्मान् अस्मान् वा अतिक्रान्तौ इति विग्रहे समासे सति द्वित्वैकत्वविशिष्टस्समासार्थ समासस्य मुख्यविशेष्यभूत युष्मदस्मदी तु बह्वर्थके तदा युवावौ न स्त । तयो युष्मदस्मदो द्वित्वैकत्वविशिष्टार्थकत्वाभावात् युवा वविधौ त्वमविधौ च युष्मदस्मदोद्वित्वैकत्वविशिष्टवाचित्वे सत्येव प्रवृत्तेराश्रयणात् । द्विवचने एकवचन च प्रत्यये परत इत्यर्थाश्रयणे तत्रातिव्याप्तिस्यादित्यर्थ । अत्र 'प्रत्ययोत्तरपदयोश्च इति सूत्रे भाष्ये “त्रिचतुर्युष्मदस्मद्रहणेष्वर्थग्रहणम्' इति वातिकव्याख्यावसरे 'युवावौ द्विवचने त्वमावेकवचने' इत्यत्र द्विवचनैकवचनशब्दयोयौगिकत्वाश्रयणमुपाक्षिप्य युवाम् आवा वा अति क्रान्त, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहान् प्रदश्र्य, त्वाम् मा वा अतिक्रान्त, अतिक्रान्तौ अतिक्रान्ता इति च विग्रहान् प्रदर्श्य अतियुष्मदत्यस्मन्छब्दयोस्सुजस्डेडस्भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु सर्वत्र युवावादेशौ त्वमादेशौ च उदाहृत्य प्रदर्शितौ । सुजस्डेडस्सु तु 'त्वाहौ, यूयवयौ, तुभ्यमह्यौ, तवममौ' इत्येत एवादेशा उदाहृता । तदिद श्लोकचतुष्ट येन सङ्ग्रहीतम् । तदिदानी तत्प्रपञ्चनपरभाष्यानुसारेणोदाहृत्य प्रदर्शयति । त्वाम् मां वा अतिक्रान्तः इत्यादिना ॥ अतिक्रान्तौ, अतिक्रान्ता इति च विग्रह्योरुपलक्षणमिदम् । विग्रहे इत्यनन्तर रूपाणि वक्ष्यन्त इति शेष । सुजस्डेडभ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु मपर्यन्तस्य त्वमावेव भवत । अवशिष्टप्रक्रियास्तु केवलयुष्मदस्मद्वज्ज्ञेया । सुजस्डेडस्सु तु त्वाहौ, यूयवयौ, तुभ्यमह्यौ, तवममौ इत्येते एवादेशा पूर्वविप्रतिषेधात् त्वमौ बाधित्वा भवन्ति । ततश्च सुजस्डेडस्सु केवलयुष्मदस्मद्वदेव रूपाणीति निष्कर्ष । अति त्वाकम् । अतिमाकमिति । ननु 'साम आकम्' इति ससुट्कनिर्देशाद्यत्र आमस्सुट्सम्भव तत्रैवाकम्, नचात्र सुट् सम्भाव्यते । इह युष्मदस्मदोरुपसर्जनत्वेन सर्वनामत्वाभावात् । सुट