४०१ । पद्स्य । (८-१-१६)
४०२ । पदात् । (८-१-१७)
४०३ । अनुदात्तं सर्वमपादादौ । (८-१-१८)
इत्यधिकृत्य ४०४ युष्मदस्मदोः षष्ठीचतुर्थी द्वितीयास्थयेोर्वानावौ । (८-१-२०) पदात्परयोरपादादौ स्थितयोरनयो पष्ट-यादिविशिष्टयोर्वा नौ इत्यादेशौ स्त । तौ चानुदात्तौ
४०५ । बहुवचनस्य वस्नसौ । (८-१-२१)
उक्तविधयोरनयो. षष्ठयादबहुवचनान्तयोर्वस्नसौ स्त।वान्नावोरपवाद ।
४०६ । तेमयावेकवचनस्य । (८-१-२२)
उक्तविधयोरनयो षष्ठीचतुरथ्येकवचनान्तयोस्ते मे एतौ स्त ।
४०७ । त्वामौ द्वितीयायाः । (८-१-२३)
विशेषनिबन्धनत्वाभावात् । प्राग्वदिति ॥ केवलयुष्मदस्मद्वदित्यर्थ । पद्रस्य । पदात् ।। अनुदात्त सर्वमपादादौ । इत्यधिकृत्येति । विवयो वक्ष्यन्ते इति शेष । अष्टमस्य प्रथमे पादे इमानि सूत्राणि पठितानि । तत्र 'पदस्य' इत्येतत् “अपदान्तस्य मूर्धन्य ' इत्यत प्रागविक्रियते । ‘पदात्’ इत्येतत्तु ‘कुत्सने च सुप्यगोत्रादौ' इत्यत प्रागधिक्रियते । ‘अनुदात्त सर्व मपादादौ' इति पदत्रयन्तु “आपादसमासे अधिक्रियते' इति भाष्यादिषु स्पष्टम् । युष्मद्स्म दोः षष्ठी । षष्ठयादिविशिष्टयोरिति ॥ षष्टीचतुर्थीद्वितीयाभिस्सह तिष्ठत इति षष्ठी चतुर्थाद्वितीयास्थो, तयोरिति विग्रह । षष्ठयादिविशिष्टयोरिति यावत् । पष्टीचतुर्थाद्वितीयासु पर तस्तिष्ठत इति विग्रहस्तु न भवति । “पदस्य' इत्यधिकारविरोधात् । पदस्येत्यनुवृत्त हि द्वि वचनेन विपरिणत षष्ठीचतुर्थीद्वितीयास्थयोरित्यस्य विशेषणम् । न हि षष्ठयादिविभक्तिषु परत पदत्वमस्ति । भ्यामादौ तत्सत्वेऽपि तदितरत्र द्वितीयादौ तदभावात् । स्थग्रहणस्य तु प्रयो जन मूल एव वक्ष्यते। बहुवचनस्य वस्नसौ । उक्तविधयोरिति ॥ षष्ठयादिविशिष्टयोः र्युष्मदस्मदोरित्यर्थ । तेमयावेकवचनस्य ॥ षष्टीचतुर्थ्येकवचनान्तयोरिति । अत्र द्वितीयाग्रह्णन्नानुवर्तते । तत्र त्वामादेशयोर्वक्ष्यमाणत्वात् । ‘तेमयौ' इति सूत्रे तेश्व मेश्व तमयाविति विग्रह इति भाव । अयमपि वान्नावोरपवाद । त्वामौ द्वितीयायाः ॥ त्वाश्च माश्वति विग्रह ।