पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/९

एतत् पृष्ठम् परिष्कृतम् अस्ति


१९४
[अजन्तस्त्रीलिङ्गे
सिद्धान्तकौमुदीसहिता

इयडुवङ्थानौ स्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ ह्रस्वौ चेवर्णो वर्णौ स्त्रियां वा नदीसंज्ञौ स्तो डिति परे । * आण्नद्या ' (सू २६८) । मत्यै मतये । मत्या’-मते । मत्या –मते । नदीत्वपक्षे “ औत्' (सू २५६) इति डेरौत्वे प्राप्ते ।

२९७ । इदुद्भयाम् । (७-३-११७)

नदीसंज्ञकाभ्यामिदुद्भया परस्य डेराम् स्यात् । पक्षे “ अञ्च घे ? (सू २४७) मत्याम्-मतौ । एव श्रुत्यादयः ।

२९८ । त्रिचतुरोः स्त्रियां तिसृचतसृ । (७-२-९९)

स्रीलिङ्गयोरेतयोरेतावादेशौ स्तो विभक्तौ परत ।


नित्यस्त्रीलिङ्गाविति यावत् । “नेयडुवड्स्थानावस्त्री' इति सूत्र नञ्वर्जमनुवर्तते । इयडुवडो स्थान स्थितियोस्ताविति विग्रह । इयडुवड्प्राप्तियेोग्यावित्यर्थ । “वामि' इत्यतो वेत्यनुवर्तते । ततश्च इयडुवड्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ नदीसज्ञौ वा स्तो डिति परे, इति वाक्यमेक सम्पद्यते । पुनरपि यू इत्यनुवर्तते । इश्च उश्च यू । हूस्व इति तत्र प्रत्येकमन्वेति । स्त्रयाख्याविति चानुवर्तते । स्त्रीलिङ्गावित्यतावदेव विवक्षितम् । नतु नित्यस्त्रीलिङ्गाविति । व्याख्यानात् । 'वामि' इत्यतो वेति चानुवर्तते । ततश्च स्त्रीलिङ्गौ हूस्वौ चेवर्णोवर्णौ नदी सज्ञो वा स्तो डिति परे इति वाक्यान्तर सम्पद्यते । तदाह । इयडुवड्स्थानावित्यादिना ॥ द्वितीयवाक्येऽपि स्त्रीलिङ्गे नित्यत्वविशेषणे तु इ-वशन्यरणिप्रभृतीनामुभयलिङ्गाना पटुमृदु प्रभृतीना त्रिलिङ्गानाञ्च डिति नदीत्वविकल्पो न स्यादिति बोध्यम्। तत्र ह्रस्वयोरप्राप्ते दीर्घयोस्तु नेयडुवड्स्थानौ' इति निषेधादप्राप्ते नदीत्वे विभाषेयम् । नदीत्वपक्षे आह । आण्नद्याः इति ॥ मति ए इति स्थिते । आटि वृद्धौ यणि च सिद्ध रूपमाह । मत्यै इति ॥ मतये इति ॥ नदीत्वाभावपक्षे ‘शेषो घ्यसखि' इति घित्वात् घेर्डितीति गुणे अयादेशे हरिशब्दवदूपम् । नदीत्वपक्षे डसिडसोराटि वृद्धिराकार, यण् । मत्या । नदीत्वाभावे मते । आमि नदीत्वा भावेऽपि हृस्वान्तत्वान्नुटि दीर्घ । मतीनाम् । डौ विशेषमाह । नदीत्वपक्षे इति । नदीत्वपक्षे घित्वाभावात् “अच घे’ इति अत्वसन्नियोगशिष्टमौत्व न भवति । किन्तु डेरामिति प्राप्त, तत् बाधित्वा औदिति केवलमौत्वे परत्वात् प्राप्त सतीत्यर्थ । इदुद्भयाम् ॥ डेराम्’ इति सूत्रान्नदीग्रहण “औत्' इति सूत्र चानुवर्तते । तदाह । नदीसंज्ञकाभ्या मित्यादिना ॥ पक्षे इति ॥ नदीत्वाभावपक्षे ' अञ्च घे ' इत्यत्वसन्नियोगशिष्टमौत्वमि त्यर्थः । मत्याम्-मताविति ॥ नदीत्वे तदभावे च रूपम् । मत्यामित्यत्र सन्निपातपरिभाषाया अनित्यत्वाध्यण् । एव श्रुत्यादयः इति ॥ आदिना स्मृत्यादिसङ्गह । त्रिचतुरोः ॥ एतयोरेताविति ॥ त्रिचतुरो तिसृ चतसृ इत्येतावित्यर्थ । विभक्ताविति ॥ * अष्टन