पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
दकारान्तप्रकरणम्]
२७५
बालमनोरमा ।

च्छ्रूयमाणविभक्तिकयोरेव । नेह। इति युष्मन्पुत्रो ब्रवीति । इत्यस्मन्पुत्रो ब्रवीति । 'समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्या ' (वा ४७१४) । । 'एकनिड़ वाक्यम्' (११९९) । तेनेह न । ओदनं पच, तव भविष्यति । इह तु स्या देव । * शालीनां ते ओदनं दास्यामि' इति । : एते वानावादय आदेशा अनन्वादेशे वा वक्तव्या ' (वा ४७१७) । अन्वादेशे तु नित्यं स्यु । धाता ते भक्तोऽस्ति, धाता तव भक्तोऽस्तीति वा । तस्मै ते नम इत्येव ।

४०८ । न चवाहाहैवयुक्ते । (८-१-२४)


विकृतन्यायेन द्वितीयान्ताऽस्मच्छब्दरूपत्वम् । वस्तुतस्तु ओकारस्य पूर्वान्तत्वान् सवेद्यो इत्यस्य पदत्वम्, स्मान्नत्यादेरष्टाक्षरत्वच्च । पररादित्वाचास्मन्छव्दरूपता । * उभयत आश्रयणे नान्ता दिवत्' इति तु नास्तीति इण्वातौ निरूपयिष्याम । कचित्तु अपादादौ कि, युष्मात्रक्षतु गोविन्दोऽस्मान् कृष्णस्सर्वदाऽवतु इति प्रत्युदाहरन्ति । तन्न । युष्मानित्यस्य पदात् परत्वा भावादेवाप्राप्ते । अस्मानित्यस्य तु पदात् परत्वेऽपि समानवाक्यस्थपदान् परत्वाभावात् । ननु 'युष्मदस्मदोष्षष्ठीचतुथाद्वितीयान्तयो ' इत्येव सूत्रयताम्, कि स्थग्रहणेन । स्थग्रहणेऽपि कथञ्चित्तस्यैवार्थस्य लाभादित्यत आह । स्थग्रहणादिति ॥ स्थाधातु अहानौ वर्तत । “समये तिष्ठ सुग्रीव' इति यथा । समये मर्यादाया विषये अनुवृत्ति मा हासीरिति गम्यते । ततश्च षष्ठीचतुर्थीद्वितीया तिष्ठत न परित्यजत इति व्युत्पत्तिविवक्षिता । षष्ठयादिविभक्तीरपरित्य जतोरित्यर्थ । अलुप्तषष्ठयादिविभक्तिविशिष्टयोरिति फलतीति भाव । इति युष्मत्पुत्रः इति ॥ पदात् परत्व सम्पादयितुम् इतिशब्द । युवयायुष्माक वा पुत्र , आवयारस्माक वा पुत्र इति विग्रह । अत्र विभक्तेर्लुका लुप्तत्वात् श्रूयमाणविभक्तिकत्वाभावान्नादेशप्रवृत्ति । तव पुत्रो मम पुत्र इति विग्रहस्तु न । “प्रत्ययोत्तरपदयोश्च' इति तत्र त्वमादेशयोर्वक्ष्यमाण त्वात् । समानवाक्ये इति ॥ निमित्तनिमितिनोरेकवाक्यस्थत्वे इत्यर्थ । निघातशब्द अनुदात्तवाची । एकतिङिति ॥ तिङित्यनेन तिङन्त विवक्षितम् । एक तिङ् यस्येति वि ग्रह । इदञ्च वाक्यलक्षणमेतच्छास्त्रेोपयोग्येव । तन * पश्य मृगो धावति' इत्यादौ नाव्याप्तिरिति समर्थसूत्रे भाष्ये स्पष्टम् । ओदनमिति ॥ ओदन पचेत्येक वाक्यम् । तव भविष्यतीत्यपर वाक्यम् । ततश्च तवेतियुष्मच्छब्दस्य भिन्नवाक्यस्थात् पदात् परत्वान्नादेश इति भाव शालीनामिति ॥ व्रीहीणामित्यर्थ । प्रकृतिविकारभावे षष्ठी । एते वांनावादयः इति इदञ्च 'सपूर्वाया ' इति सूत्रे भाष्ये स्थितम् । धातेति ॥ महादेव प्रति वचनमेतत् । अन्वादेशे तु नित्यमित्यस्योदाहरणमाह । तस्मै ते नम इत्येवेति ॥ अत्र “योऽग्निर्हव्यवाट् । य इन्द्रो वज्रबाहु ” इत्यादि पूर्ववाक्य द्रष्टव्यम् । एवञ्च किञ्चित्कार्य विधातुमुपात्तस्य कार्यान्तर बोधयितु पुनरुपादानादन्वादेशोऽयमिति तत्र नित्य एवादेश इति भाव । न चवाहा ॥ च इत्यव्यय समुच्चये, वा इति विकल्पे, हा इत्यद्भुते, अह इति खेदे, एव इत्यवधारणे