पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/९१

एतत् पृष्ठम् परिष्कृतम् अस्ति


२७६
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

चादिपञ्चकयोगे नैते आदेशा स्यु । हरिस्त्वां मा च रक्षतु । कथ त्वा मां वा न रक्षेदित्यादि । युक्तग्रहणात्साक्षाद्योगेऽय निषेध । परम्परासम्बन्धे त्वादेश स्यादेव । हरो हरिश्च मे स्वामी ।

४०९ । पश्यार्थैश्वानालोचने । (८-१-२५)

अचाक्षुषज्ञानार्थैर्धातुभिर्योगे एते आदेशा न स्यु । चेतसा त्वा समीक्षते ।परम्परासम्बन्धेडप्ययं निषेध । भक्तस्तव रूपं ध्यायति । आलोचने तु

भक्तस्त्वा पश्यति चक्षुषा ।

४१० । सपूर्वायाः प्रथमाया विभाषा । (८-१-२६)

विद्यमानपूर्वात्प्रथमान्तात्परयोरनयोरन्वादेशेऽप्येते आदेशा वा स्यु । भक्तस्त्वमप्यह् तेन हरिस्त्वा त्रायते स माम् । त्वा मा इति वा ।


एतेषा द्वन्द्व । युक्त इति भावे त्क्त । तदाह । चादिपञ्चकयोगे इति ॥ पञ्चानामन्यतमेन योगे इत्यर्थ । एते इति ॥ वा नावादय इत्यर्थ । “युष्मदस्मदोष्षष्टी' इत्यादिसूत्रेभ्यस्तदनु वृत्तेरिति भाव । इत्यादीति ॥ कृष्णो मम हा प्रसीदति । अद्भुतमिदमित्यर्थ । कृष्णो ममाह न प्रसीदति । अहेति खेदे । कृपणा ममैव सेव्य । ननु “न चवाहाहैवै ' इत्येवास्तु, मास्तु युक्तग्रहणम्।' वृद्धो यूना' इत्यादिवत् तृतीययैव तल्लाभादित्यत आह्। युक्तग्रहणादिति ॥ यत्र चाद्यर्थे समुचयादिभिर्युष्मदस्मदर्थयोस्साक्षादन्वय तत्रैवायन्निषेध इत्यर्थ । हरो हरिश्चेति ॥ अत्र चशब्दस्य हरिहरयोस्साक्षादन्वय । समुचितयोर्हरिहरयो स्वामीत्यत्रान्वय । स्वामीत्यस्य मे इत्यनेनान्वय । ततश्च चशब्दस्य अस्मच्छब्देन साक्षादन्वयाभावात् मे आदेशस्य निषेधो नेति भाव । पश्यार्थैश्वानालोचने ॥ दर्शन पश्य । 'दृशिर् प्रेक्षणे' इत्यस्मादत एव निपातनात् भावे शप्रत्यय । “पाघ्रा' इति पश्यादेश । पश्य दर्शनम् अर्थो येषान्ते पश्यार्था, तैरिति विग्रह । आलोचन चाक्षुष ज्ञान, तद्भिन्नमनालोचनम्, तत्र विद्यमानै दर्शनार्थकैरित्यर्थ । पश्येति दृशिना ज्ञानसामान्य विवक्षितम् । अनालोचने इति चाक्षुषपर्युदासात् । तदाह । अचा क्षुषेत्यादिना ॥ चेतसेति । देवेत्यद्याहार्यम् । हे देव मनसा त्वा चिन्तयतीत्यर्थ । परम्परेति ॥ “न चवाहा' इत्यत्र युक्तग्रहणसामर्थ्यात् साक्षात्सम्बन्धविवक्षा युक्ता । इह तु तद्विवक्षाया मानाभावात् परम्परान्वयेऽपि स्यादेव निषेध इत्यर्थ । भक्तस्तवेति । देवे. त्यध्द्याहार्यम् । इह तवेत्यस्य रूपेणान्वय , न तु साक्षात् ध्यायातिनेति भाव । अनालोचने इत्यस्य प्रयोजनमाह । आलोचने त्विति ॥ सपूर्वायाः ॥ वानावाद्यादेशा अनन्वादेशे पाक्षिका, अन्वादेशे तु नित्या इत्युक्तम् । अन्वादशेऽपि क्वचिद्विकत्पार्थमिदम् । सहशब्दो ऽत्र सलोमक इत्यादिवत् विद्यमानवाची । विद्यमान पूर्व यस्या इति विग्रह 'तेन सहेति तुल्ययोगे ? इति वा विग्रह । तुल्ययोगवचन प्रायिकम् इति वक्ष्यमाणत्वात् । प्रथमेत्यनेन तदन्त गृह्यते । तदाह । विद्यमानेत्यादिना ॥ परयोरित्यनन्तर युष्मदस्मदोरिति शेष ।