पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४२३
बालमनोरमा ।

५६४ । सहयुक्त्तेऽप्रधाने । (२-३-१९)

सहार्थेन युक्तेऽप्रधाने तृतीया स्यात् । पुत्रेण सहागतः पिता । एवं साकंसार्धसमंयोगेऽपि । विनापि तद्योगं तृतीया । 'वृद्धो यूना --' (सू ९३१) इत्यादिनिर्देशात् ।

५६५ ॥ येनाङ्गविकारः । (२-३-२०)

येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततस्तृतीया स्यात् । अक्ष्णा काणः । अक्षिसम्बन्धिकाणत्वविशिष्ट इत्यर्थः । अङ्गविकारः किम् । अक्षि काणमस्य ।

५६६ । इत्थम्भूतलक्षणे । (२-३-२१)

कञ्चित्प्रकारं प्राप्तस्य लक्षणे तृतीया स्यात् । जटाभिस्तापसः । जटा ज्ञाप्यस्तापसत्वविशिष्ट इत्यर्थः ।


अनुवाकोऽद्ययनेन गृहीत इत्यर्थः । नायात इति ॥ न गृहीत इत्यर्थः । सहयुक्त ॥ 'पृथ ग्विनानानाभिः’ इतिवत् सहेनेत्येव सिद्धे युक्तग्रहणं सहार्थकशब्दानां साकमित्यादीनामपि ग्रहणा र्थमित्याह । सहार्थेनेति ॥ पुत्रेणेति॥ पितुरत्रागमनक्रियासम्बन्धश्शाब्दः । पुत्रस्य तु तत्सा हित्यगम्य आर्थिक इति तस्याप्राधान्यम्।‘‘यद्यप्यागमनक्रियाकर्तृत्वादेव पुत्रात् तृतीया सिद्धा । तथापि पुत्रेण सह स्थूल इत्याद्येवास्य मुख्योदाहरणम् ” इति भाष्ये स्पष्टम् । अर्थग्रहणस्य प्रयो जनमाह । एवं साकमिति । ननु “पुत्रेणागतः पिता' इत्यत्र सहादिशब्दाभावात् कथं तृतीयेत्यत आह । विनापीति ॥ 'वृद्धो यूना तल्लक्षणंश्चेत्' इति सूत्रे सहादिशब्दाभावेऽपि तदर्थावगमेऽपि तृतीयानिर्देशदर्शनादित्यर्थः । येनाङ्गविकारः । अङ्गान्यस्य सन्तीत्यङ्गं शरीरम् । अर्श आद्यच् । तस्य विकार इति विग्रहः । येनेत्यनेन प्रकृत्यर्थभूतमङ्गं परामृश्यते । नह्यविकृतन अङ्गेन आङ्गिनो विकारस्सम्भवति। तदाह । येनाङ्गेनेत्यादिना ॥ अक्ष्णा काणः इति ॥ काणशब्दः काणत्ववति वर्तते । सम्बन्धस्तृतीयार्थः । स च काणत्वेऽन्वेति । तदाह । अक्षिसम्बन्धीति ॥ सम्बन्धश्च विकारप्रयुक्तत्वरूपः । अक्षिविकारप्रयुक्तकाणत्ववानिति यावत् । यद्यपि एकमक्षि विकलं काणमित्युच्यते । तथाप्यवयविधर्मस्य शरीरे तदवछिन्नात्मनि व्यवहारो निरूढः । द्वैौ विप्रावितिवत् अक्ष्णेति पदस्य प्रयोगस्समर्थ्यः । इत्थम्भूतलक्षणे ॥ अयं प्रकारः इत्थं, तं भूतः प्राप्तः इत्थम्भूतः, “भू प्राप्तौ इति चौरादिकात् “आधृषाद्वा' इति णिजभावे “गत्यर्थाकर्मक' इत्यादिना कर्तरि क्तः । लक्षणं ज्ञापकं प्रकारविशेषं प्राप्तस्य ज्ञापके सम्बन्धे द्योत्ये इत्यर्थः । तदाह । कञ्चित्प्रकारमिति ॥ जटाभिस्तापस इति ॥ तपः अस्यास्तीति तापसः । ‘तपस्सहस्राभ्यां विनीनी' “अण्च' इति मत्वथयि अण्प्रत्ययः तापसत्व वति वर्तते । लक्ष्यलक्षणभावस्तृतीयार्थः । तदाह । जटाज्ञाप्येति ॥ नच ज्ञापने करणत्वा