पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२४
[कारके तृतीया
सिद्धान्तकौमुदीसहिता

५६७ । संज्ञोऽन्यतरस्यां कर्मणि । (२-३-२२)

सम्पूर्वस्य जानातेः कर्मणि तृतीया वा स्यात् । पित्रा पितरं वा सञ्जानीते ।

५६८ । हेतौ । (२-३-२३)

हेत्वर्थे तृतीया स्यात् । द्रव्यादिसाधारणं निर्व्यापारसाधारणं च हेतुत्वम् । करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च । दण्डेन घटः । पुण्येन दृष्टो हरिः । फलमपीह हेतुः । अध्ययनेन वसति । 'गम्यमानापि


देव तृतीया सिद्धेति वाच्यम् । करणत्वाविवक्षायां लक्ष्यलक्षणभावस्य सम्बन्धत्वेन विवक्षायां तृतीयार्थत्वात् । संज्ञोऽन्यतरस्यां कर्मणि ॥ सम्पूर्वस्य ज्ञाधातोरनुकरणात् षष्ठयेकवचनं संज्ञ इति । तदाह । सम्पूर्वस्य जानातेरिति । द्वितीयापवादोऽयं तृतीयाविकल्पः । सञ्जानीते इति ॥ सम्यक् जानीते इत्यर्थः । सम्प्रतिभ्यामनाध्द्याने' इत्यात्मनेपदम् । हेतौ ॥ हेत्वर्थे इति ॥ हेतुरिह कारणपर्यायो लौकिक एव विवक्षितः, नतु 'तत्प्रयोजको हेतुश्च' इति कृत्रिमः। तस्य चकारेण कर्तृसंज्ञाया अपि सत्त्वेन कर्तृतृतीययैव सिद्धेः । ननु हेतोरपि करणत्वा देव तृतीयासिद्धेत्याशङ्कय हेतुत्वकरणत्वयोर्भदमाह । द्रव्यादिसाधारणमिति ॥ आदिना गुणक्रियासङ्गहः। द्रव्यं गुणं क्रियाश्च प्रति यज्जनकं तत्र सर्वत्र विद्यमानमित्यर्थः । निर्व्यापार साधारणञ्चेति । द्वारीभूतव्यापारवति तद्रहिते च विद्यमानच्चेत्यर्थः । एवञ्च द्रव्यगुण क्रियात्मककार्यत्रयनिरूपितं निर्व्यपारसव्यापारवृत्ति च यत् तद्धेतुत्वमिति फलति । करण त्वन्त्विति ॥ क्रियाजनकमात्रवृत्ति व्यापारवृत्ति च यत् तदेव करणत्वमित्यर्थः । एवञ्च हेतुत्वकरणत्वयोः भेदादन्यतरेण अन्यतरस्य नान्यथासिद्धिरिति भावः । तत्र द्रव्यं प्रति हेतुमुदाहरति । दण्डेन घटः इति । दण्डहेतुको घट इत्यर्थः । दण्डे व्यापारसत्त्वेऽपि क्रियाजनकत्वाभावान्न करणत्वमिति भावः । क्रियां प्रति हेतुमुदाहरति । पुण्येन दृष्टो हरिरिति ॥ यागादिना स्वर्गादिफले जननीये यदवान्तरव्यापारभूतमपूर्व तत् पुण्यमित्युच्यते। तस्य हरिदर्शनजनकत्वेऽपि निर्व्यापारत्वान्न करणत्वमिति भावः । गुणं प्रति हेतुत्वे तु पुण्येन ब्रह्मवर्चसमित्याद्युदाहार्यम् । ननु अध्द्ययनेन वसतीत्यत्र कथं तृतीया । अध्ध्ययनस्य गुरुकुल वासं प्रात हेतुत्वाभावात् । प्रत्युत अध्द्ययनस्य वाससाध्द्यत्वादित्यत आह । फलमपीह हेतुरिति । अध्द्ययनं यद्यपि वासफलं, तथापि वासं प्रति हेतुरपि भवति । इष्टसाधनताज्ञा नस्य प्रवृत्तिहेतुतया अध्द्ययनस्य फलस्य स्वज्ञानद्वारा वासजनकत्वात् । यदा त्वध्द्ययने फले एतादृशं हेतुमविवक्षित्वा अध्द्ययनार्थमेव वासो विवक्ष्यते, तदा चतुर्थ्येव भवति, अध्द्ययनाय वसतीति । एतच्च प्रकृतसूत्रे कैयटे स्पष्टम् । ननु अलं श्रमेण इत्यत्र कार्यस्य कस्यचिदप्यश्रव णात् करणत्वहेतुत्वयोरसम्भवात् कथं तृतीयेत्यत आह । गम्यमानापीति । न केवलं श्रूयमाणैव क्रिया विभक्तौ प्रयोजिका, किन्तु गम्यमानापीत्यर्थः । करणतृतीयैवेयमित्यभिप्रेत्याह ।