पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२६
[कारके चतुर्था
सिद्धान्तकौमुदीसहिता

अथ चतुर्थी विभक्तिः ।

५६९ । कर्मणा यमभिप्रैति स सम्प्रदानम् । (१-४-३२)

दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञः स्यात् ।

५७० । चतुर्थी सम्प्रदाने । (२-३-१३)

विप्राय गां ददाति । अनभिहित इत्येव । दीयतेऽस्मै दानीयो विप्रः । 'क्रियया यमभिप्रैति सोऽपि सम्प्रदानम्' (वा १०८५) । पत्ये शेते । 'कर्मणः करणसंज्ञा सम्प्रदानस्य च कर्मसंज्ञा' (वा १०८६) । पशुना रुद्रं यजते । पशु रुद्राय ददातीत्यर्थः ।

५७१रुच्यर्थानां प्रीयमाणः । (१-४-३३)

रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणोऽर्थः सम्प्रदानं स्यात् । हरये


अथ चतुर्थी विभक्तिः-कर्मणा यमभि ॥ कर्मसंज्ञकेन गवादिद्रव्येण यमभिप्रैति शेषित्वेनाध्द्यवस्यति स सम्प्रदानमित्यर्थः । शेषित्वं भोक्तृत्वम् । सम्प्रदीयते यस्मै तत् सम्प्र दानमित्यन्वर्थसंज्ञैषा । ततश्च कस्याः क्रियायाः कर्मणेत्याकांक्षायां दानस्येति गम्यते । तदाह । दानस्येत्यादिना । देयद्रव्योद्देश्यं सम्प्रदानामिति फलितम् । दानस्येति किम् । पयो नयति देवदत्तस्य । अत्र देवदत्तस्य पयोनयनोद्देश्यत्वेऽपि न सम्प्रदानत्वम् । पयसा दानकर्मत्वा भावात् । चतुर्थी सम्प्रदाने। विप्रायेति ॥ विप्रमुद्दिश्य गां ददातीत्यर्थः । अनभिहिते इत्येवेति ॥ अनुवर्तत एवेत्यर्थः । दानीयो विप्र इति ॥ दानोद्देश्य इत्यर्थः । “कृत्यल्युटो बहुळम्' इति बहुळग्रहणात् सम्प्रदाने अनीयर् । तेन कृता सम्प्रदानस्य विप्रस्याभिहितत्वान्न चतुर्थीति भावः । ननु दानक्रियाकर्मोद्देश्यस्यैव सम्प्रदानत्वे पत्ये शेते इत्यत्र अकर्मकशयन क्रियोद्देश्यस्य पत्युः कथं सम्प्रदानत्वमित्याशङ्कायां “क्रियाग्रहणमपि कर्तव्यम्’ इति वार्तिकं प्रवृत्तम् । तदेतदर्थतस्सङ्गृह्लाति । क्रियया यमिति ॥ क्रियोद्देश्यमपि सम्प्रदानमिति यावत् । पत्ये शेते इति ॥ पतिमुद्दिश्य शेते इत्यर्थः । नन्वेवमपि ओदनं पचतीत्यादावपि सम्प्रदानत्व प्रसङ्गः । न च कर्मसंज्ञाविधिवैयर्थ्य शङ्कयम् । अत एव तत्र कर्वत्वसम्प्रदानत्वयोर्विकल्पोप पत्तेरिति चेन्न । पत्ये शेते इत्यकर्मकस्थले सावकाशायाः सम्प्रदानसंज्ञायाः सकर्मकस्थले कर्म संज्ञया बाधात् । तथाच अकर्मकक्रियोद्देश्यमपि सम्प्रदानमिति फलतीति भावः । कर्मणः करण संज्ञा सम्प्रदानस्य च कर्मसंज्ञा इति । वार्तिकम् । एकस्मिन् वाक्ये कर्मणस्सम्प्रदानस्य च समवाये सतीति शेषः । यजधातुविषयमेवेदमित्यभिप्रेत्य उदाहरति । पशुना रुद्रं यजते इति ॥ अत्र यजधातुर्दानार्थक इत्यभिप्रेत्य आह । पशुं रुद्राय ददातीत्यर्थ इति ॥ इदं वार्तिकं छान्दसमेवेति कैयटः । रुच्यर्थानाम् ॥ रुच्यर्थानां धातूनामिति ॥