पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२८
[कारके चतुर्थी
सिद्धान्तकौमुदीसहिता

धारयतेः प्रयोगे उत्तमर्ण उक्तसंज्ञः स्यात् । भक्ताय धारयति मोक्षं हरिः । “उत्तमर्णः' किम् । देवदत्ताय शतं धारयति ग्रामे ।

५७४ । स्पृहेरीप्सितः । (१-४-३६)

स्पृहयतेः प्रयोगे इष्टः सम्प्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । *ईप्सितः किम् । पुष्पेभ्यो वने स्पृहयति । ईप्सितमात्रे इयं संज्ञा । प्रकर्षविवक्षायां तु परत्वात्कर्मसंज्ञा । पुष्पाणि स्पृहयति ।

५७५ । क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः । (१-४-३७)

क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः स उक्तसंज्ञः स्यात् । हरये क्रुध्यति, द्रुह्यति, ईर्ष्यति, असूयति वा । * यं प्रति कोपः' किम् । भार्यामीर्ष्यति ।


स्यार्पयिता धनस्वामी उत्तमर्णः । प्रतिमासमशीतिभागादिवृद्या उत्तमम् अधिकतां प्राप्तम् ऋणं यस्येति विग्रहः । भक्तायेति ॥ भक्तसम्बन्धी यो मोक्षः अपरिमितनित्यसुखविशेषः तं धार यतीत्यर्थः । धरते मोक्षः, अवतिष्ठते इत्यर्थः । तं प्रेरयति धारयति, अवस्थापयतीति यावत् । पूजयन् हि भक्तः तुळसीदळादिद्रव्यं प्रयच्छति, तच्च गृह्णन् तुष्टो हरिः तत्प्रदत्तद्रव्यं मोक्षदानेन निष्क्रीणाति । तदाहुः पौराणिकाः–“तोयं वा पत्रं वा यद्वा किञ्चित् समर्पितं भक्तया । तदृणं मत्वा देवो निश्श्रेयसमेव निष्क्रियम्मनुते ॥” इत्यादि । तथाचात्र भक्तस्य ऋणदातृत्वेन उत्तमर्णत्वात् सम्प्रदानत्वं सम्बन्धषष्ठयपवादः । स्पृहेरीप्सितः ॥ “स्पृह ईप्सायाम् चुरादावदन्तः । ततः स्वार्थे णिचि अल्लोपस्य स्थानिवत्वात् लघूपधगुणाभावे स्पृहिशब्दात् षष्ठये कवचनम् । प्रयोग इत्यध्द्याहार्यम् । तदाह । स्पृहयतेरित्यादिना ॥ ननु पुष्पेभ्यः स्पृहयती त्येव स्यात्, नतु पुष्पाणि स्पृहयतीत्यपि । उभयं त्विष्यते । तत्राह । ईप्सितमात्र इति ॥ यदा त्वीप्सितत्वस्यापि न विवक्षा, किन्तु विषयतामात्रविवक्षा, तदा पुष्पाणां स्पृहयतीति साधु । “कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति च' इत्यादिदर्शनात् । वाक्यपदीये तु स्पृहयति योगे कर्मसंज्ञायाश्शेषष्ठयाश्चायमपवाद इति स्थितम् । हेलाराजोऽप्येवम् । तन्मते पुष्पाणि स्पृहयति पुष्पाणां स्पृहयतीत्याद्यसाध्वेवेत्यन्यत्र विस्तरः । क्रुधद्रह ॥ क्रुधाद्यर्थानामिति ।। ‘क्रुध क्रोधे, द्रुह द्रोहे' श्यन्विकरणौ। ‘ईर्ष्य ईष्र्यायां' शब्विकरणः।‘असूञ् उपतापे' कण्ड्रादिः । एषामर्था एवार्था येषामिति विग्रहः । हरये कुध्द्यतीति ॥ रावणादिरिति शेषः । हरिविषयकं कोपं करोतीत्यर्थः । घातच्छासमनियतश्चित्तवृत्तिविशेषः कोपः । अकर्मकत्वात् षष्ठी प्राप्ता । द्रुह्यतीति ॥ कोपात् हरिविषयकमपकारं करोतीत्यर्थः । अकर्मकत्वात् षष्ठी प्राप्ता । अपकारो दुःखजनिका क्रिया । धात्वर्थोपसङ्ग्रहादकर्मकः । ईर्ष्यतीति ॥ ईष्र्या असहनम् । हरिं कोपान्न सहत इत्यर्थः । कर्मणि द्वितीया प्राप्ता । असूयति वेति ॥ असूया गुणेषु दोषारोपः । यथाविहितकर्माचारे दम्भादिकृतकत्वारोपणम् । इह कोपात् हरिं दुर्गुणं मन्यत