पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४२९
बालमनोरमा ।

मैनामन्यो द्राक्षीदिति । क्रोधोऽमर्षः । द्रोहोऽपकारः । ईर्ष्या अक्षमा । असूया गुणेषु दोषाविष्करणम् । द्रोहादयोऽपि कोपप्रभवा एव गृह्यन्ते । अतो विशेषणं सामान्येन * यं प्रति कोपः' इति ।

५७६ । क्रुधद्रुहोरुपसृष्टयोः कर्म । (१-४-३८)

सोपसर्गयोरनयोर्योगे यं प्रति कोपस्तत्कारकं कर्मसंज्ञं स्यात् । क्रूर मभिक्रुध्यति-अभिद्रुह्यति ।

५७७ । राधीक्ष्योर्यस्य विप्रश्नः । (१-४-३९)

एतयोः कारकं सम्प्रदानं स्यात् । यदीयो विविधः प्रश्नः क्रियते । कृष्णाय राध्यति-ईक्षते वा । पृष्टो गर्ग: शुभाशुभं पर्यालोचयतीत्यर्थः ।

५७८ । प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता । (१-४-४० )

आभ्यां परस्य श्रृणोतेर्योगे पूर्वस्य प्रवर्तनारूपस्य व्यापारस्य कर्ता सम्प्र


इत्यर्थः । मैनामिति ॥ एनां भार्यामन्यो न पश्येत् इत्येतदर्थं भार्यागुणेषु दोषारोपणं करोतीत्यर्थः । नात्र भार्यां प्रति कोपः, किन्तु परेण दृश्यमानां तां न सहत इत्येव विवक्षित मिति । एवञ्च क्रोधद्रोहेर्ष्यासूयानां कोपमूलकत्व एवेदमिति भाष्ये स्थितम् । तथाच कुप्यति कस्मै विदित्याद्यसाध्वेव । कोपस्य कोपमूलकत्वाभावात् क्रुधार्थकत्वाभावाच्च । प्ररूढकोप एव हि क्रोधः, “नह्यकुपितः क्रुध्ध्यति' इति भाष्यात् । क्रुधद्रुहोः ॥ उपसृष्टयोरित्येतत् व्याचष्टे । सोपसर्गयोरिति ॥ पूर्वसूत्रापवादोऽयम् । हरेः क्रोधद्रोहोद्देश्यत्वाभावात् “क्रियया यमभि प्रैति' इति सम्प्रदानत्वस्य न प्रसक्तिः । नापि तादर्थ्यचतुर्थ्याः । क्रुधद्रुहोरकर्मकत्वात् न हरेः कर्मत्वम् । अतः शेषषष्ठयां प्राप्तायां वाचनिकं कर्मत्वम् । राधीक्ष्योः ॥ यदीय इति ॥ यद्विषयक इत्यर्थः । विप्रश्र इत्येतद्याचष्टे । विविधः प्रश्न इति ॥ कृष्णाय राद्धति ईक्षते वा, पृष्टो गर्ग इति ॥ गर्गो नाम ज्योतिश्शास्त्रवित् ऋषिविशेषः, सः कृष्णाय राध्यति ईक्षते वेत्यन्वयः । “राध संसिद्धौ, ईक्ष दर्शने' । इह तु प्रश्रविषयशुभाशुभपर्यालो चनमर्थः । यस्य विप्रश्न इति लिङ्गात् । तदाह । शुभाशुभं पर्यालोचयतीत्यर्थः इति॥ अत्र शुभाशुभस्य च प्रश्रविषयस्य धात्वर्थोपसङ्ग्रहादकर्मकावेतौ । अत एव राध्यतीति श्यन्नुपपद्यते । अन्यथा “राधोऽकर्मात्' इति नियमात् श्यन् न स्यात् । एवञ्च किं कृष्णस्य शुभमशुभं वेति पृष्टो गर्गः कृष्णविषयकं शुभाशुभं पर्यालोचयतीत्यर्थः । कृष्णस्य सम्प्रदानत्वं षष्ठयपवादः । प्रत्याङ्भ्याम् ॥ प्रत्याङ्भ्यामिति दिग्योगे पञ्चमी । परस्येत्यद्याहार्यम् । श्रुव इत्यस्य विशेषणम् । 'श्रु श्रवणे' । इह तु प्रेरणापूर्वकाभ्युपगमे वर्तते । पूर्वशब्दः प्रेरणा त्मकव्यापारं परामृशति । तदाह । आाभ्यामित्यादिना ॥ पूर्वस्येत्यस्य व्याख्यानम् ।