पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/११३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३६
[कारके पञ्चमी
सिद्धान्तकौमुदीसहिता

पराजेः प्रयोगेऽसह्योऽर्थोऽपादानं स्यात् । अध्ययनात्पराजयते । ग्लायतीत्यर्थः । 'असोढः' किम् । शत्रून्पराजयते । अभिभवतीत्यर्थः ।

५९० । वारणार्थानामीप्सितः । (१-४-२७)

प्रवृत्तिविघातो वारणम्, वारणार्थानां धातूनां प्रयोगे ईप्सितोऽर्थो ऽपादानं स्यात् । यवेभ्यो गां वारयति । * इंप्सित ' किम् । यवेभ्यो गां वारयति क्षेत्रे ।


सहिवहोरोदवर्णस्य’ इत्योत्त्वे यत्वढत्वष्टुत्वढलोपेषु कृतेषु सोढ इति रूपम् । तत्र क्तार्थो भूतकालो न विवक्षितः । तदाह । असह्योऽर्थ इति ॥ सोढुमशक्य इत्यर्थः । हेतुतृतीया पवादोऽयम् । ग्लायतीत्यर्थ इति । असहनादिति शेषः । यदा तु असहनान्निवर्तत इत्यर्थ आश्रीयते, तदा ध्रुवमित्यपादानत्वादेव सिद्धमिति भाष्यम् । अभिभवतीति ॥ तिरस्करोतीत्यर्थः । अत्र शत्रूणामभिभवनीयतया असह्यत्वाभावान्नापादानता । वारणार्था नामीप्सितः ॥ प्रवृत्तिविमुखीकरणं वारणम् । यवेभ्य इति ॥ यवेषु प्रवर्तितुकामां गां प्रवृत्तिविमुखीकरोतीत्यर्थः । संयोगपूर्वकविश्लेषाभावात् “ध्रुवमपाये' इत्यप्राप्ताविदं वचनम् । तत्र यवानां स्वकीयतया संरक्षणीयत्वेन ईप्सितत्वादपादानत्वं, नतु गोः, तस्याः परकीयत्वे नानीप्सितत्वात् वारणीयतया ईप्सितत्वव्याघाताच्च । तथाच “तथायुक्तञ्च' इति गोः कर्मत्वात् द्वितीया । यदा तु यवाः परकीयाः गौस्तु स्वकीया तदा वारणमसम्भावितमेव । वस्तुतस्तु यवानां परकीयत्वेऽपि तद्विनाशादधर्मस्स्यात् । यवस्वामी गामपहृत्य बध्नीयात् । गोस्वामि नञ्च यवस्वामी दण्डयेत् । अतो यवानां रक्षितुमिष्टत्वात् ईप्सितत्वादपादानत्वमस्त्येव । गोस्तु स्वकीयत्वेऽपि बाधकनिवृत्त्यै वारयितुमिष्टतमत्वात् कर्मत्वम् । नच गोरीप्सिततमत्वेऽपि ईप्सितत्वस्यापि सत्त्वादपादानत्वं किन्न स्यादिति वाच्यम् । ईप्सिततमत्वे 'वारणार्थानाम् ' इत्यपादानत्वम् बाधित्वा * कर्तुरीप्सिततमम्’ इति कर्मत्वस्यैव परत्वात् प्राप्तेः । नच 'वारणा र्थानामीप्सितः' इत्यपादानत्वस्य 'कर्तुरीप्सिततमम्’ इति कर्मत्वापवादत्वं शङ्कयम् । ‘कर्तु रीप्सिततमम्’ इति कर्मत्वं हि ईप्सिततममात्रविषयम् । वारणार्थानामित्यपादानत्वन्तु ईप्सित विषयम्, तस्य प्रकृते ईप्सितेषु यवेषु परकीयेषु सावकाशत्वात् न “कर्तुरीप्सिततमम्’ इति कर्मत्वापवादत्वम् । अतः परत्वात् गोः स्वकीयायाः परकीययवापेक्षया ईप्सिततमत्वात् कर्म त्वमेव । नच अग्नेर्माणवकं वारयतीत्यत्र अग्नेरीप्सितत्वाभावात् कथमपादानत्वमिति वाच्यम् । इष्टत्वभ्रमादग्नौ विषये स्पर्शनफलकप्रवृत्त्यभिमुखं माणवकं प्रवृत्तिविमुखीकरोतीति हि तदर्थः । तत्राग्निस्पर्शे माणवकस्य दाहप्रसङ्गात् तद्विषयप्रवृत्तिविमुखीकरणात्मकवारणक्रियया आप्तुमिष्ट तमत्वेन वारयितुमीप्सिततमत्वात् माणवकस्य कर्मत्वम्। अग्नेतु वारणक्रियेप्सिततममाणवकीय स्पर्शक्रियया आप्तुमिष्टतमत्वेऽपि वारयितुरीप्सितत्वात् अपादानत्वम्। एतेन कर्तुर्व्यापारजन्य फलाश्रयः कर्मेत्येवास्तु, ‘कर्तुरीप्सिततमं कर्म, तथायुक्तञ्चानीप्सितम्’ इति किमीप्सिततमानीप्सि