पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/११४

एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४३७
बालमनोरमा ।


५९१ । अन्तधौं येनादर्शनमिच्छति (१-४-२८)

व्यवधाने सति यत्कर्तृकस्यात्मनो दर्शनस्याभावमिच्छति तदपादानं स्यात् । मातुर्निलीयते कृष्ण अन्तधौं ' किम्, चौरान्न दिदृक्षते । “ इच्छति' ग्रहणं किम् । अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात् । देवदत्ताद्य ज्ञदत्तो निलीयते ।

५९२ ।। आख्यातोपयोगे । (१-४-२९)

नियमपूर्वकविद्यास्वीकारे वक्ता प्राक्संज्ञः स्यात् । उपाध्यायादधीते उपयोगे' किम् । नटस्य गाथां श्रृणोति ।


तयोः पृथग्ग्रहणेन । एतावतैव हरिं भजति, ग्रामं गच्छन् तृणं स्पृशति, विषं भुङ्गे, इत्यादिसर्वलक्ष्य सङ्गहादिति निरस्तम्। कर्तृव्यापारजन्यफलाश्रयः कर्म इत्युक्तौ हि ‘वारणार्थानाम्’ इति सूत्रमस्याप वादः स्यात्, विशेषविहितत्वात् । तथाच माणवकस्य कर्मत्वन्न स्यात् । नचाग्नौ ‘वारणार्थानाम् इति सावकाशमिति वाच्यम् । वारयतेर्हत्र स्पर्शफलकप्रवृत्तिविघटनमर्थः । तच्चान्यतो नयनादि रूप: तादृशव्यापारप्रयोज्यफलं माणवककर्तृकस्पर्शफलकप्रवृत्तिविरहः। तत्र स्पर्शोशोडग्निनिष्ठः माणवकनिष्ठश्च संयोगरूपस्य स्पर्शस्य द्विनिष्ठत्वात् । प्रवृत्तिविरहश्च विषयतया अन्निनिष्ठः समवायेन माणवकनिष्ठश्च तथाच कर्तृव्यापारप्रयोज्यफलाश्रयत्वलक्षणकर्मत्वस्य परत्वादुभय त्रापि प्राप्तौ * वारणार्थानाम्' इत्यपादानत्वं निरवकाशत्वादपवादस्यादिति माणवकादपि पञ्चमी स्यात्, तद्वाधनार्थ 'कर्तुरीप्सिततमं कर्म' इत्यारब्धव्यम् । एवञ्च ईप्सितमात्रे अग्नौ सावकाशस्यापादानत्वस्य परत्वादीप्सिततमे माणवके बाधस्सिध्द्यति । कर्तुरीप्सिततममित्यारब्धे च द्वेष्योदासीनसङ्गहार्थ 'तथायुक्तम्' इत्यप्यारब्धव्यमित्यास्तान्तावत् । भाष्ये तु बुद्धिकल्पित संयोगविश्लेषकृतमपादानत्वमाश्रित्य प्रत्याख्यातमिदं सूत्रम् । अन्तर्धौ ॥ अन्तर्धावित्येतत् व्याचष्टे । व्यवधानेन सतीति।। व्यवधानेनेति यावत् । यत्कर्तृकस्येति ॥ येनेति कर्तृतृतीयेति भावः । आत्मनो दर्शनस्येति आत्मन इति दर्शनशब्दयोगे कर्मणि षष्ठी आत्मन इत्यध्द्याहारलभ्यम् । अत एव येनेति कर्तरि तृतीया सङ्गच्छते । अन्यथा कृद्योग षष्ठीप्रसङ्गात् । आत्मन इत्यध्द्याहारे तु उभयप्राप्तौ कर्मण्येवेति नियमान्न कृद्योगषष्ठी । आत्म शब्देन इच्छतिकर्ता विवक्षितः । व्यवधानेन स्वविषये यत्कर्तृकदर्शनस्य अभावमिच्छतीति यावत् । मातुर्निलीयते कृष्ण इति ॥ 'लीङ् श्लेषणे' श्यन्विकरणः । इह तूपसर्गवशात् व्यवधानेन परकर्तृकस्वविषयकदर्शनविरहानुकूलव्यापारे वर्तते । ततश्च कृष्णः मातृकर्तृक स्वविषयकदर्शनविरहाय कुड्यादिना प्रच्छन्नो भवतीत्यर्थः। अत्र व्यवधानमाश्रित्य मातृकर्तृक स्वविषयकदर्शनविरहस्य कृष्णेनेष्यमाणतया मातुरपादानत्वात् पञ्चमी । कर्तृतृतीयापवादोऽयं षठ्यपवादो वा । भाष्ये तु बुद्धिकृतमपादानत्वमाश्रित्य इदमपि प्रत्याख्यातम् । आाख्यातो पयोगे ॥ आख्याता उपयोगे इति छेदः आख्यातेति तृजन्तात् प्रथमैकवचनम् । उपयोग