पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ अथ ४५३ । स्त्रियाम् । (४--३) अधिकारोऽयम् । समर्थानामिति यावत् । अथ स्त्रीप्रत्ययाः निरूप्यन्ते । तदेवं “डयाप्प्रातिपदिकात्' इत्यधिकृत्य “स्वौजस मौट्’ इति सूत्रं सप्रपञ्चन्निरूप्य तदुत्तरमनुक्रान्तान् स्त्रीप्रत्ययान्निरूपयितुमाह । स्त्रियाम्॥ अधिकारोऽयमिति ॥ “अजाद्यतष्टाप्’ इत्याद्युत्तरसूत्रेष्वनुवृत्त्यर्थमिदं सूत्रं, नतु स्वतन्त्र विधिरित्यर्थः । कियत्पर्यन्तमयमधिकारः इत्यत आह । समर्थति ॥ यावदित्यवधौ । “सम र्थानां प्रथमात्' इत्यतः प्रागित्यर्थः । अत्रेदमवधेयम् । “स्तनकेशवती स्त्री स्याल्लोमशः पुरुष स्स्मृषः । उभयोरन्तरं यच्च तदभावे नपुंसकम् ॥” इति लक्षणलक्षितम् अवयवसंस्थानविशेषा त्मकं लौकिकं स्त्रीपुंसयोर्लिङ्ग, तदभावे तयोरुभयोरभावे सति यदुभयोरन्तरं सदृशं तन्नपुंसक मित्यर्थः । तदिदं लौकिकं लिङ्गमस्मिन् शास्त्रे नोपयुज्यते । तस्य अचेतने खट्टा मालादौ बाधात् स्त्रीप्रत्ययानापत्तेः । दारानित्यादौ “तस्माच्छसो नः पुंसि ' इति नत्वानापत्तेश्च । किन्तु सत्त्वरजस्तमसां प्राकृतगुणानां वृद्धिः पुंस्त्वम्, अपचयः स्रीत्वम्, स्थितिमात्रन्नपुंसकत्वम् । अत एव उत्कर्षापकर्षसत्त्वेऽपि स्थितिमात्रमादाय * सामान्ये नपुंसकम्’ इति प्रवादः । उत्क षर्षापकर्षसाम्यात्मकावस्थात्रयसाधारणास्थितिमात्रविवक्षायां नपुंसकं भवतीति तदर्थः । ईदृश मवस्थात्रयं केवलान्वयि। अयं पदार्थः, इयं व्यक्तिः, इदं वस्तु, इति व्यवहारस्य सार्वत्रिकत्वात् । तच्चेदं लिङ्गमर्थनिष्टमेव । तदुक्तं भाष्ये “एकार्थे शब्दान्यत्वात् दृष्टं लिङ्गान्यत्वमवयवान्यत्वाच्च इति । एकस्मिन्नेवार्थे पुष्यस्तारका तारकं नक्षत्रम् इति शब्दनानात्वदर्शनात्, कुटी कुटीरादौ रेफाद्यवयवोपजनने लिङ्गभेददर्शनाच्च स्तनकेशाद्यतिरिक्तमेव लिङ्गमित्यर्थ इति कैयटः । पुलिङ्ग शब्द इत्यादिव्यवहारस्तु वाच्यवाचकयोरभेदोपचाराद्वोध्यः । नच उपचयादिधर्माणां विरुद्ध त्वादेकत्र समावेशायोगादेकस्य द्वित्रिलिङ्गताऽनापतिरिति वाच्यम् । एकैकस्मिन् वस्तुनि क्षण भेदेन त्रयाणां धर्माणामपि समावेशोपपत्तेः । उक्तञ्च भाष्ये “कश्चिदपि सत्त्वादिधर्मः कचिन्मुहू र्तमपि नावतिष्ठते यावदनेन वर्धितव्यमपायेन वा युज्यते” इति । नन्वेवं सति युगपत् द्वित्रि लिङ्गत्वानापत्तिरिति वाच्यम् । नहि व्यवहारे स्वसमकालिकपदार्थसत्ता प्रयोजिका । तथा सति भूतभविष्यद्यवहारोच्छेदापातात् । तत्र कश्चिच्छब्दः एकलिङ्गविशिष्ट एवार्थे प्रयोज्यः कश्चित्तु द्विलिङ्गे, कश्चितु त्रिलिङ्गे, इतीत्येतत्तु लिङ्गानुशासनशास्रादवगन्तव्यम् । एषां पुंस्त्री नपुंसकशब्दानां वृद्यादिशब्दवदस्मिन् शास्त्रे सङ्केतश्च लिङ्गानुशासनत एव ज्ञेयः । उक्तञ्च