पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४४३
बालमनोरमा ।

६०२ । विभाषा गुणेऽस्त्रियाम् । (२-३-२५)

गुणे हेतावस्रीलिङ्गे पञ्वमी वा स्यात् । जाड्यात्-जाड्येन वा बद्धः । गुणे' किम् । धनेन कुलम् । ' अस्रियाम्' किम् । बुद्धया मुक्तः । 'वि- भाषा' इति योगविभागादगुणे स्त्रियां च क्वचित् । धूमादग्निमान् । नास्ति घटाऽनुपलव्धेः।

६०३ । पृथग्विनानानाभिस्तृतीयान्यतरस्याम् । (२-३-३२)

एभिर्योगे तृतीया स्यात्पञ्चमद्वितीये च । अन्यतरस्यांग्रहणं समुच्च यार्थम्, पञ्चमीद्वितीये चानुवर्तेते । पृथग्रामेण-रामात्-रामं वा । एवं विना, नाना ।


भावः । शतस्य हेतुत्वेऽपि कर्तृत्वान्न ततः पञ्चमीति भावः । विभाषा ॥ हेतावित्यनुवर्तते । तदाह । गुणे हेतावस्त्रीलिङ्गे इति ॥ विद्यमानादिति शेषः । जाड्यादिति ॥ जडस्य भावो जाड्यम् । 'गुणवचनब्राह्मणादिभ्यः कर्मणि च' इति ष्यञ् । ननु धूमादग्निमानित्यादौ कथं पञ्चमी । धूमादेरगुणत्वादित्यत आह । योगविभागादिति ॥ “विभाषा' इति योगो विभज्यते । हेतावित्यनुवर्तते, पञ्चमीति च । हेतौ पञ्चमी वा स्यादित्यर्थः । ततश्च धूमादग्नि मानित्यादि सिद्धम् । ततः गुणे स्त्रियामिति । तत्र विभाषेत्यनुवर्तते, पञ्चमीति च । गुणे हेतावस्रीलिङ्गे पञ्चमी वा स्यादित्युक्तोऽर्थः । ततश्च जाड्याद्वद्ध इत्यादि सिद्धम् । ननु विभाषे त्येव सिद्धे गुणे स्त्रियामिति व्यर्थमित्यत आह । अगुणे स्त्रियाञ्च क्वचिदिति ॥ योग विभागस्य इष्टसिध्द्यर्थत्वादिति भावः । अत्रागुणे उदाहरति । धूमादिति । अग्निमानि त्यनन्तरं ज्ञायत इति शेषः । धूमस्य अग्निहेतुत्वात् । अत्र धूमस्य अगुणत्वेऽपि हेतुत्वात् ततः पञ्चमीति भावः । स्त्रियामुदाहरति । नास्ति घटः इति ॥ घट इत्यनन्तरं ज्ञायत इति शेषः । अनुपलब्धेरिति ॥ उपलब्धिः ज्ञानम्, तस्या अभावः अनुपलब्धिः । नञ्तत्पुरुषः । न चार्थाभावेऽव्ययीभावश्शङ्कयः । अर्थाभावे तयोर्विकल्पस्य वक्ष्यमाणत्वात् । पृथग्विना ॥ पञ्चमीद्वितीये चेति ॥ तृतीयाभावपक्षे इति शेषः । “ अपादाने पञ्चमी, षष्ठयतसर्थप्रत्ययेन, एनपा द्वितीया, पृथग्विना' इति सूत्रक्रमः । तत्र षष्ठीत्यस्वरितत्वान्नानुवर्तते, पञ्चमी द्वितीयेति चानुवर्तते । तथाच तृतीयाभावपक्षे पञ्चमी द्वितीया चेति भावः । ननु तृतीयाभावपक्षे द्वितीयैव सन्निहितत्वात् स्यात्, नतु पञ्चम्यपि, षष्ठयतसर्थेनेत्यत्र तदनुवृत्तेरभावात् । अतोऽत्र पञ्चम्यास्समावेशोऽनुपपन्न इत्यत आह । अन्यतरस्यांग्रहणमिति ॥ तृतीया चेत्येतावतैव सन्निहितद्वितीयासमुच्चयसिद्धेरन्यतरस्याङ्गुरुयत्नकरणं व्यवहिताया अपि पञ्चम्यास्समुच्चयार्थम् । अव्ययानामनेकार्थकत्वादिति भावः । ननु पञ्चम्याः “षष्ठ्यतसर्थ ' इत्यत्रानुवृत्ताया इहानुवृत्ते रसम्भवात् कथमिह तदुपस्थितिरित्यत आह । पञ्चमीद्वितीये चानुवर्तेते इति ॥ मण्डूकप्लुत्येति शेषः । पृथग्रामेणेति ॥ रामप्रतियोगिकभेदवानित्यर्थः । एवं विना नानेति ॥