पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४६
[कारके षष्ठी
सिद्धान्तकौमुदीसहिता

६०७ । षष्ठी हेतुप्रयोगे । (२-३-२६)

हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्टी स्यात् । अन्नस्य हेतोर्वसति ।

६०८ । सर्वनाम्नस्तृतीया च । (२-३-१७)

सर्वनाम्नो हेतुशब्दस्य च प्रयोगे हेतौ द्योत्ये तृतीया स्यात्षष्ठी च । घकेन हेतुना वसति । कस्य हेतोः । “निमिन्तपर्यायप्रयोगे सर्वासां प्राय दर्शनम्’ (वा १४७३) । किं निमित्तं वसति, केन निमित्तेन, कस्मै निमित्ताय, इत्यादि । एवं * किं कारणम्' * को हेतुः' * किं प्रयोजनम्' इत्यादि । प्रायग्रहणाद्सर्वनाम्रः प्रथमाद्वितीये न स्तः' । ज्ञानेन निमित्तेन हरिः सेव्यः । ज्ञानाय निमित्ताय, इत्यादि ।

६०९ । षष्ठ-यतसर्थप्रत्ययेन । (२-३-३०)


बोधः । एधश्शब्दस्सकारान्तोऽप्यस्ति नपुंसकलिङ्गः । “काष्ठन्दार्विन्धनन्त्वेध इध्ममेधस्समित् स्त्रियाम्' इति कोशात् । “यथैधांसि समिद्धेोऽग्निः' इत्यादिदर्शनाच्च । तथा सति एधः दकस्येति छेदः । उदकशब्दसमावेशे एध उदकस्येत्यापत्तेः । उदकशब्दपर्यायो दकशब्दोऽप्यस्ति । भुवनममृतं जीवनं स्यात् दकञ्च ' इति हलायुधकोशात् । तथाच एधः कर्तृ उदकं परि ष्कुरुते इत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायान्तु षष्ठी । निम्बकरञ्जादिकाष्ठविशेषप्रज्वलितानिग्नि तप्तोदकस्य गुणविशेषो वैद्यशास्त्रप्रसिद्धः । भजे शम्भोश्चरणयोरिति । अत्र चरणयोः कर्मत्वस्य शेषत्वविवक्षायां षष्ठी । शम्भुचरणसम्बन्धि भजनमित्यर्थः । फलानां तृप्तः इति ॥ अत्रापि करणत्वस्य शेषत्वविवक्षायां षष्ठी । फलसम्बन्धिनी तृप्तिरिति बोधः । षष्ठी हेतु प्रयोगे ॥ हेतावित्यनुवर्तते । तदाह । हेतौ द्योत्ये इति ॥ हेतुत्वे द्योत्ये इत्यर्थः । हेतुवाचकात् षष्ठीति फलितम् । “हेतौ' इति तृतीयां बाधित्वा षष्ठी । हेतुप्रयोगे किम् । अन्नेन वसति । हेतौ द्योत्ये इति किम् । अन्नस्य हेतोस्तुभ्यं नमः । अत्र युष्मच्छब्दान्न भवति । सर्वनाम्नस्तृतीया च । सर्वनाम्नः इति षष्ठी । तदाह । सर्वनाम्नो हेतुशब्दस्य चेति ॥ कस्माद्भवतीत्यपेक्षायां सन्निहितत्वात् सर्वनामहेतुभ्यामिति गम्यते इत्यभिप्रेत्योदाहरति । केन हेतुनेति ॥ सर्वनाम्न इति यदि पञ्चमी स्यात्, तदा हेतुशब्दात् षष्ठी न स्यादिति बोध्यम् । निमित्तपर्यायेति । निमित्तपर्यायाणां प्रयोगे तेभ्यस्तत्समानाधिकरणेभ्यश्च संवर्वासां विभक्तीनां प्रायेण प्रयोगो भवतीत्यर्थः । किन्निमित्तं वसतीति ॥ प्रथमान्तं द्वितीयान्तञ्च ज्ञेयम् । इत्यादीति ॥ कस्मात् निमित्तात्, कस्य निमित्तस्य, कस्मिन्निमित्ते । पर्यायग्रहणस्य प्रयोजन माह । एवं किं कारणमित्यादि । प्रायग्रहणस्य प्रयोजनमाह । प्रायग्रहणादिति ॥ एवञ्च षष्ठी हेतुप्रयोगे ' 'सर्वनाम्नस्तृतीया च' इति सूत्रद्वयं न कर्तव्यमेवेति भावः । षष्ठयतसर्थ ॥ एतद्योगे इति ॥ “दिक्शब्देभ्यस्सप्तमीपञ्चमीप्रथमाभ्यो दिग्देश