पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४४७
बालमनोरमा ।

एतद्योगे षष्ठी स्यात् । ‘-दिक्छब्द-' (सू ५९५) इति पञ्चम्या अपवादः । ग्रामस्य दक्षिणतः, पुरः, पुरस्तात्, उपरेि, उपरिष्टात् ।

६१० । एनपा द्वितीया । (२-३-३१)

एनबन्तेन योगे द्वितीया स्यात् । 'एनपा' इति योगविभागात्षष्ठ्यपि । दक्षिणेन ग्रामं-ग्रामस्य वा ।

६११। दूरान्तिकार्थैः षष्ठयन्यतरस्याम् । (२-३-३४)

एतैर्योगे षष्ठी स्यात्पञ्चमी च । दूरं, निकटं, ग्रामस्य-ग्रामाद्वा ।

६१२ । ज्ञोऽविदर्थस्य करणे । (२-३-५१)


कालेष्वस्तातिः' इत्यारभ्य “ आहि च दूरे ' “उत्तराच्च' इत्यन्तैस्सूत्रैर्दिग्देशकालवृत्तिभ्य श्शब्देभ्यः स्वार्थे प्रत्यया विहिताः । तत्र ‘दक्षिणोत्तराभ्यामतसुच्' इति विहितः यः अतसु च्प्रत्ययः तस्यार्थः दिग्देशकालरूपः स एवार्थो यस्य सः अतसर्थप्रत्ययः तद्योगे इत्यर्थः । यद्यप्यतसर्थप्रत्ययेषु अस्तातिरेव प्रथमः । तथापि लाघवादतसर्थेत्युक्तम्, न त्वस्तात्यर्थेति । संयुक्ताक्षरघटितत्वेन गौरवात् । दिक्शब्देतीति ॥ 'अन्यारात्' इति सूत्रे दिक्शब्देत्यनेन या पञ्चमी विहिता तदपवाद इत्यर्थः । दक्षिणतः इति ॥ सप्तमीपञ्चमीप्रथमान्तात् स्वार्थे दिग्देशकालवृत्तेः दक्षिणशब्दात् अतसुच् । दक्षिणस्यां, दक्षिणस्याः, दक्षिणा, वा दिगित्यर्थः । एवं देशे काले च । पुरः इति ॥ पूर्वाशब्दादस्तात्यर्थे 'पूर्वाधरावराणामसिपुरधवचैषाम् इत्यसिप्रत्ययः प्रकृतेः पुरादेशश्च । पूर्वस्यां, पूर्वस्याः, पूर्वा, वेत्यर्थः । पुरस्तादिति ॥ पूर्व शब्दादस्तातिप्रत्यये सति “ अस्ताति च' इति प्रकृतेः पुरादेशः । पुरश्शब्दसमानार्थकमिदम् । उपरीति ॥ “उपर्युपरिष्टात्’ इति सूत्रेण ऊर्ध्वशब्दात् रिल्प्रत्ययः रिष्टातिल्प्रत्ययश्च । प्रकृते रुपादेशश्च निपातितः । ऊर्ध्वायान्दिशि, ऊर्ध्वाया दिशः, ऊर्ध्वा दिगिति वा, अर्थः । एवं देशे कालेऽपि । एनपा द्वितीया ॥ “षष्ठयतसर्थ ' इति षष्ठयाः नित्यं बाधे प्राप्ते आह । योग विभागादिति ॥ एनपेति योगो विभज्यते । 'षष्ठयतसर्थ' इति पूर्वसूत्रात् षष्ठीत्यनुवर्तते । एनबन्तेन योगे षष्ठी स्यादित्यर्थः । द्वितीयेति योगान्तरम् । एनपेत्यनुवर्तते । एनबन्तेन योगे द्वितीया स्यादित्युक्तोऽर्थः । दक्षिणेनेति ॥ 'एनबन्यतरस्यामदूरेऽपञ्चम्याः' इत्येनप् । एवमुत्तरेणेति ॥ उत्तरेण ग्रामं, ग्रामस्य, वेत्युदाहरणमित्यर्थः । पूर्वेण ग्रामं प्रामस्य वेत्याद्यपि बोध्यम् । दिक्शब्देभ्य एनव्विधः । भाष्ये तु 'षष्ठयतसर्थ' इति सूत्रात् प्राक् एनपा द्वितीया' इत्यस्य पाठ इति “पृथग्विना’ इति सूत्रे उक्तम् । अतोऽत्र सत्यपि योग विभागे षष्ठीग्रहणानुवृत्तरसम्भवादेनपा योगे षष्ठयसाधुरेवेति युक्तम् । दूरान्तिकार्थैः ॥ एतैरिति ॥ दुरार्थकैरन्तिकार्थकैश्च शब्दैर्योगे इत्यर्थः । पञ्चमी चेति ॥ षष्ठयभावे “अपादाने पञ्चमी' इत्यतः अनुवृत्ता पञ्चमीति भावः । “एनपा द्वितीया' इति, पृथग्विनानानाभिस्तृतीया' इति, द्वितीयातृतीये सन्निहिते अपि न समुचीयेते । व्याख्यानात् । ज्ञोऽविदर्थस्य ॥ ज्ञः