पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४८
[कारके षष्ठी
सिद्धान्तकौमुदीसहिता

जानातेरज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् । सर्पिषो ज्ञानम् ।

६१३ । अधीगर्थद्येशां कर्मणि । (२-३-५२)

एषां कर्मणि शेषे षष्ठी स्यात् । मातुः स्मरणम् । सर्पिषो दयनम्, ईशनं वा ।

६१४ । कृञः प्रतियत्ने । (२-३-५३)

प्रतियत्नो गुणाधानम् । कृञः कर्मणि शेषे षष्ठी स्याद्गुणाधाने । एधोदकस्योपस्करणम् ।

६१५ । रुजार्थानां भाववचनानामज्वरेः । (२-३-५४)

भावकर्तृकाणां ज्वरिवर्जितानां रुजार्थानां कर्मणि शेषे षष्ठी स्यात् ।


अविदर्थस्येति च्छेदः । ज्ञ इति ज्ञाधातोरनुकरणात् षष्ठ्येकवचनम् । वित् ज्ञानं अर्थः यस्य विदर्थः, स नभवतीति अविदर्थः । ज्ञानार्थकभिन्नस्येति यावत् । तदाह । जानातेरज्ञानार्थ स्येति ॥ शेषत्वेनेति ॥ सम्बन्धत्वेनेत्यर्थः । शेष इत्यनुवृत्तरिति भावः । सर्पिषो ज्ञान मिति । वस्तुतः करणीभूतं यत्सर्पिः तत्सम्बन्धिनी प्रवृत्तिरित्यर्थः । अविदर्थस्येति लिङ्गादेव ज्ञा अवबोधने' इति धातोः प्रवृत्तौ वृत्तिः । “षष्ठी शेषे' इति सिद्धेऽपि 'प्रतिपदविधाना षष्ठी न समस्यते’ इत्येतदर्थवचनम् । अधीगर्थ । एषामिति ॥ ‘इक् स्मरणे' नित्यमधिपूर्वः, तस्यार्थ इवार्थो यस्य सः अधीगर्थः, स्मरणार्थक इति यावत् । शेष इति ॥ “षष्ठी शेषे' इत्यतस्तदनुवृत्ते रिति भावः । मातुः स्मरणामात । वस्तुतः कर्मीभूतमातृसम्बन्धि स्मरणमित्यर्थः । सर्पिषो दयनमिति । वस्तुतः कर्मीभूतसर्पिस्सम्बन्धि दयनमित्यर्थः । 'दय दानगतिरक्षण हिंसादानेषु, दीनान् द्यते इत्यत्र दुःखाद्वियोजयितुमिच्छतीत्यर्थः । परदुःखापहरणेच्छा दया । ईशनं वेति ॥ सर्पिषः इत्यनुषज्यते । वस्तुतः कर्मीभूतसर्पिस्सम्बन्धियथेष्टविनियोग इत्यर्थः । इदमपि समासनिषेधार्थमेव । लोकानीष्ट इत्यत्र तु यथास्वेच्छमाज्ञापयतीत्यर्थः । कृञः प्रति ॥ कर्मणीति, शेष इति, चानुवर्तते । प्रतियत्नो गुणाधानम् । तदाह । कृञ- कर्मणीति ॥ एधोदकस्योपस्करणमिति । एधश्शब्दस्सकारान्तो नपुंसकलिङ्गः । दकशब्द उदक वाची । एधश्च दकञ्चेति द्वन्द्वः । यद्वा एधशब्दः अकारान्तः पुल्लिंङ्गः । एधश्च उदकचेति द्वन्द्वः इत्यनुपदमेवोक्तम् । वस्तुतः कमींभूतैधेोदकसम्बन्धि परिष्करणमित्यर्थः । रुजार्थनाम् ॥ रुजा पीडा रोगः इत्यर्थो येषामिति विग्रहः । भाववचनानामित्येतद्याचष्टे । भावकर्तृका णामिति ॥ वक्तीति वचनः, कर्तरि ल्युट् । प्रकृत्यर्थो न विवक्षितः । भावः धात्वर्थः वचन: कर्ता येषामिति विग्रहः । भावकर्तृकाणामिति फलितमिति भाष्ये स्पष्टम् । शेष इति कर्मणीति चानुवर्तते । तदाह । कर्मणि शेष इति । इदमपि समासाभावार्थमेव । चौरस्य रोगस्य रुजेति ॥ अत्र रुजेति व्याधिकृतसन्तापादिपीडोच्यते । रोगश्चौरं सन्तापादिना