पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४४९
बालमनोरमा ।

चौरस्य रोगस्य रुजा । “ अज्वरिसन्ताप्योरिति वाच्यम्' (वा १५०७) । रोगस्य चौरज्वरः, चौरसन्तापो वा । रोगकर्तृकं चौरसम्बन्धि ज्वरादिकमित्यर्थः ।

६१६ । आशिषि नाथः । (२-३-५५)

आशीरर्थस्य नाथतेः शेषे कर्मणि षष्ठी स्यात् । सर्पिषो नाथनम् । 'आशिषि ' इति किम् । माणवकनाथनम्' । तत्सम्बन्धिनी याच्येत्यर्थः ।

६१७ । जासिनिप्रहणनाटक्राथपिषां हिंसायाम् । (२-३-५६)

हिंसार्थानामेषां शेषे कर्मणि षष्टी स्यात् । चौरस्योज्जासनम् । निप्रेौ संहतौ विपर्यस्तौ व्यस्तौ वा । चौरस्य निप्रह्णनम्--प्रणिहननम्--


पीडयतीति पर्यवसन्नोऽर्थः । रोगकर्तृका वस्तुतः कर्मीभूतचेौरगतसन्तापादिपीडेत्यत्र भाव घञन्तेन रोगशब्देन शारीरक्षयादिविकारविशेषो विवक्षितः । सच रुजाया कर्ता । तत्कर्म णश्चौरस्य शेषत्वविवक्षायां षष्ठी । रोगस्य चौररुजेति समासो न भवतीति योजना । अज्वरि सन्ताप्योरिति ॥ रुजार्थानां भाववचनानां ज्वरिसन्तापिवर्जितानाम् इति सूत्रं वक्तव्यमित्यर्थः । रोगस्य चौरज्वरः इति ॥ अत्र चौरज्वरशब्दे शेषष्ठया समासो भवत्येव । शेषषष्ठयाः पुनर्विध्यभावात् । एवं रोगस्य चौरसन्ताप इत्यत्रापि बोध्यम् । अंत्राज्वरिसन्ताप्योरित्यनुक्तौ तु रुजार्थानां भाववचनानां कर्मणि शेषे चौरशब्दात् षष्ठी स्यादित्यतिव्यातिं दर्शयितुमाह । रोगकर्तृकमिति । । रोगकर्तृकः वस्तुतः कर्मीभूतचौरसम्बन्धी ज्वरः सन्तापो वेति यावत् । एवञ्च ज्वरिसन्ताप्योः रुजार्थकत्वात् रोगात्मकभावकर्तृकत्वाच्च तत्कर्मणश्चौरस्य शेषत्वविवक्षायां नानेन षष्ठी, किन्तु कृद्योगे षष्ठी, षष्ठी शेषे इत्येव षष्ठी वा । अत: चौरज्वरः चौरसन्ताप इति समासो भवत्येवेति भावः । आशिषि नाथः ॥ “शेषे कर्मणि' इति चानुवर्तते । तदाह । आशीरर्थस्येति । इदमपि समासाभावार्थमेव । सर्पिषो नाथनमिति । इदम्मे भूयादितीच्छा आशासनम् । तदेवाशीः नाथतेतरर्थः । वस्तुतः कर्मीभूतसर्पिस्सम्बन्धि आशासनमित्यर्थः। जासिनिप्र॥ कर्मणि शेषे इत्यनुवर्तते। तदाह । हिंसार्थाना मित्यादिना । इदमपि समासाभावार्थमेव । चौरस्योजासनमिति ॥ “जसु ताडने जसु हिंसायाम्' इंति चुरादौ । वस्तुतः कर्मीभूतचौरसम्बन्धिनी हिंसेत्यर्थः । 'जडु मोक्षणे इति दैवादिकस्य तु न ग्रहणम् । हिंसार्थत्वाभावात् जासीति निर्देशाच । निप्राविति । निप्र हणेति निप्रपूर्वस्य हनधातोः निर्देशः । तत्र निप्र इत्येतौ समस्तौ गृह्येते, प्रनीत्येवं व्युत्क्रमेण च गृह्येते । प्रेति नीति च पृथगपि गृह्यते, व्याख्यानादित्यर्थः । समस्तावुदाहरति । चौरस्य निप्रहणनमिति । वस्तुतः कर्मीभूतचौरसम्बन्धि हननमित्यर्थः । 'हन्तरत्पूर्वस्य’ इति णत्वम्। विपर्यस्तावुदाहरति। प्रणिहननमिति ॥ नेर्गद’ इति णत्वम्। हन्तेर्नकारस्य तु न णत्वम् । 'अट्कुप्वाड्' इति नियमात् । नेर्नकारस्य तदनन्तर्भावात् । व्यस्तावुदाहरति ।