पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४५३
बालमनोरमा ।

गान्न भवति । ननु कृत: कटः पूर्वमनेनेति विग्रहे कृतशब्दस्य पूर्वशब्देन समासो न सम्भवति । कृतशब्दस्य कटशव्दापेक्षत्वेन सामर्थ्यविरहात् । अत एव तद्धितः इनिप्रत्ययोऽपि दुर्लभः ।किञ्च कृत इति त्क्तप्रत्ययेन कटस्य कर्मणोऽभिहितत्वेन ततष्षष्ठयाः प्राप्तिरेव नास्तीति किं तन्निवृत्त्यर्थेन कृद्रहणेन । क्तप्रत्ययेन कृता अभिहितत्वादेव कटात् द्वितीया दुर्लभेति चेत् ,कृत अम् पूर्वं अम् इत्यलौफिकविग्रहवाक्ये कटस्यासन्निहिततया कर्मत्वेनान्वयासम्भवेन कृञ् धातोस्तदानीमकर्मकतया कर्मणि क्तप्रत्ययस्यासम्भवे सति “नपुंसके भावे क्तः' इति भावे क्तप्रत्यये कृते सति कृतशब्दस्य कटशब्दसापेक्षत्वाभावात् समासतद्धितौ निर्बाधौ । ततश्च कृतपूर्वीति तद्धितान्तस्य पूर्वं कृतवानित्यर्थः पर्यवस्यति । किं कृतवानिति कर्मजिज्ञासायां कटमित्यन्वति । गुणभूतयापि क्रियया कारकसम्बन्धस्य कटं कृतवानित्यादौ दर्शनात् । तञ्च कर्मत्वं न त्क्तप्रत्ययेनाभिहितम्, तस्य भावे विधानात् । नापीनिप्रत्ययेन । तस्य कर्तरि विधानात् । तथाच असति कृद्भहणे षष्ठी स्यात् । तन्निवृत्त्यर्थं कृद्रहणमिति भाष्ये स्पष्टम् । नच निष्ठायोगे निषेधादेवात्र षष्ठी न भविष्यतीति वाच्यम् । ‘नपुंसके क्ते भावे षष्ठया उपसङ्खयानम्' इति “क्तस्य च वर्तमान' इति सूत्रस्थवार्तिकेन निष्ठायोगे षष्ठीनिषेधस्यात्राप्रसक्तः। तथाच षष्ठयभावे उक्तरीत्या अनभिहितत्वात् द्वितीया सुलभैव । नच कृतेऽपि कृद्भहणे षष्ठी दुर्वारा । कृतेति क्तप्रत्ययात्मककृद्योगस्य सत्वादिति वाच्यम् । कृद्वहणसामर्थ्येन भाष्योदा हरणेन च वृत्त्यन्तर्भावानापन्नकृद्योगस्य विवक्षितत्वात् । प्रकृते च कृतेत्यस्य तद्धितवृत्त्यन्त र्भूतत्वान्न तद्योगष्षष्ठीनिमित्तम् । नचैव सति ओदनस्य पाचकतमः, ओदनस्य पाचकग्रहणम् इत्यादौ षष्ठी न स्यात्।वृत्यनन्तर्भूतकृद्योगाभावात् । तथाच ओदनं पाचकतमः ओदनं पाचकग्रहणम्, इति द्वितीयैव स्यादिति वाच्यम् । इष्टापत्तेः । अत एव मतुब धिकारे * प्रज्ञाश्रद्धार्चाभ्यो णः ? इत्यत्र 'प्राज्ञो व्याकरणम्’ इति उदाहरिष्यते मूलकृता । नचैवं घटः क्रियते इत्यत्रापि कर्मणो विवक्षाभावमाश्रित्य भावलकारे सति अनन्तरं घटस्य कर्मत्वेनान्वयसम्भवात् अनभिहितत्वात् द्वितीया दुर्वारेति वाच्यम् । वैषम्यात् । कृत पूर्वीत्यत्र हि अलौकिकविग्रहदशायां कटशब्दस्यासन्निधानात् कर्मणो विवक्षा न सम्भवतीति भावे क्तप्रत्यय इति युक्तमाश्रयितुम् । क्रियत इत्यत्र तु न सम्भवत्येवाविवक्षा । क्रत्तद्धित समासैकशेषसनाद्यन्तधातुरूपवृत्तिपञ्चकानन्तभूतत्वेन वृत्तिशून्यतया विग्रहाभावात्। तथा च वृत्तिविषय एवायं व्युत्पत्तिप्रकार इति प्राचीनमतानुसारी पन्थाः । शब्देन्दुशेखरे तु ओदनं पाचकतमः इत्यादौ द्वितीया असाधुरेव, षष्ठवेव साधुरिति प्रपञ्चितम् । विस्तरभयात्रेह तल्लि ख्यते । ननु भट्टिकाव्ये “ददैर्दुःखस्य मादृग्भ्यो धायैरामोदमुत्तमम् । लिंपैरिव तनोर्वातै श्वेतयस्यात् ज्वलो न कः ॥” इति श्लोकोऽस्ति । श्रीरामस्य विरहार्तस्य वाक्यमेतत् । अत्र दुःखस्येति तनोरिति च कर्मणि षष्ठी । मादृग्भ्यो दुःखं ददैर्ददद्भिः पुष्पादीनाम् आमोदं परिमळं धायैः पोषकैः तनोः तनुं शरीरं लिंपैः लिंपद्रिः कः चेतयः प्राणी ज्वलः ज्वलान्निव न स्यादि त्यर्थः । अत्रामोदस्योत्तमस्येति कर्मणि षष्ठया भाव्यम् । धायशब्दस्य पेोषणार्थकधाञ्धातोः ददातिदधात्योः' इति णप्रत्ययात्मककृदन्तत्वादिति चेन्न । उत्तममामोदं पुष्पादीनां गृहीत्वा