पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४५५
बालमनोरमा ।

६२६ । अधिकरणवाचिनश्च । (२-३-६८)

क्तस्य योगे षष्ठी स्यात् । इदमेषाभासितं शयितं गतं भुक्तं वा।

६२७ । न लोकाव्ययनिष्ठाखलर्थतृनाम् । (२-३-६९)

एषां प्रयोगे षष्ठं न स्यात् । लादेशः।कुर्वन्-कुर्वाणो वा सृष्टिं हरि: । उः । हरिं दिदृक्षुः-अलङ्करिष्णुर्वा । उकः । दैत्यान्धातुको हरिः । कमेरनिषेधः । (वा १५१९) । लक्ष्म्याः कामुको हरिः । अव्ययम्। जग-


इत्यत्र तु भूते क्तप्रत्ययेो बोध्यः । नच “मतिबुद्धि' इत्यनेन भूतक्तस्य बाधश्शङ्कयः । 'तेन' इत्यधिकारे उपज्ञात इति लिङ्गात् तदवाधज्ञापनादित्याहु । अधिकरणवाचिनश्च ॥ शेषपूरणेन सूत्रं व्याचष्टे । त्क्तस्य योगे षष्ठीति । शयितामिति ॥ शेतेऽस्मि न्निति शयितम् । “शीङ् स्वप्रे ' 'त्क्ताऽधिकरणे च ध्रौव्य' इति त्क्तप्रत्यय । तत्र एषा मिति कर्तरि षष्ठी । “न लोक' इति निषेधापवादः । भुजेस्तु प्रत्यवसानार्थकत्वात् अधिकरणे क्तप्रत्ययः । इदमेषां भुक्तमोदनस्य, इत्यत्र तु कर्तृकर्मणेोर्द्धयोरपि षष्ठी । “उभयप्राप्तौ' इति नियमस्तु न प्रवर्तते । मध्येऽपवादन्यायेन “कर्तृकर्मणोः कृति’ इति षष्ठया एव तन्नियमाभ्यु पगमात् । न लोक । एषामिति । ल, उ, उक, अव्यय, निष्ठा, खलर्थ, तृन्, एषा मित्यर्थः । उ, उक, इत्यत्र सवर्णदीर्घ सति ऊकेति भवति । ततः ल, ऊकेत्यत्र आद्रुणे लोकेति भवति । लादेश इति ॥ अविभक्तिकनिर्देशोऽयं लादेशेोदाहरणसूचनार्थः । ल इति लडादीनां सामान्येन ग्रहणम् । तेषाञ्च साक्षात्प्रयोगाभावात् तदादेशग्रहणमिति भावः । कुर्वन् कुर्वाणो वेति ॥ लटश्शतृशानचौ । इह कर्मणि षष्ठीनिषेधात् द्वितीया । उ इत्यु दाहरणसूचनमिदम् । उ इत्यनेन कृतो विशेषणात्तदन्तविधिः । हरिं दिदृक्षुरिति ॥ दृशेस्सन्नन्तात् “सनाशंसभिक्ष उ:’ इति उप्रत्ययः कृत् । व्यपदेशिवत्वेन उकारान्तोऽयं कृत् । हरिकर्मकदर्शनेच्छावानित्यर्थः । अलङ्करिष्णुर्वेति । हरिमित्यनुषज्यते । 'अलं कृञ्' इत्यादिना ताच्छील्यादाविष्णुच् । उवर्णस्यैव ग्रहणे त्वत्र निषेधो न स्यात् । उक इति ॥ इदमपि तदुदाहरणसूचनार्थम् । दैत्यान् घातुको हरिरिति ॥ ‘आ क्वेस्तच्छीलतद्धर्म तत्साधुकारिषु' इत्यधिकारे “लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ्’ इति तच्छीलादिषु हनधातोः कर्तरि उकञ्प्रत्ययः, उपधावृद्धिः । “हो हन्तेः' इति हस्य घत्वम् । “हनस्तो ऽचिण्णलोः' इति नकारस्य तकारः । घातनशीलः घातनधर्मा घातनसाधुकारी वेत्यर्थः । कमेरिति । वार्तिकमिदम् । उकान्तकमेर्योगे षष्ठया निषेधो नास्तीत्यर्थः । लक्ष्म्याः कामुक इति ॥ ‘लषपत’ इत्यादिना उकञ् । अव्ययमिति । उदाहरणसूचनमिदम् । जग त्सृष्टेति ॥ हरिरास्ते इति शेषः । “समानकर्तृकयोः' इति क्ताप्रत्ययः । “ त्का तोसुन्कसुनौ इति अव्ययत्वम् । सुखं कर्तुमिति ॥ भक्तस्य हरिः प्रभवतीति शेषः । 'तुमुन्वुलौ क्रियायां क्रियार्थायाम्' इति तुमुन् । “कृन्मेजन्तः' इत्यव्ययत्वम् । इह कृदव्ययमेव गृह्यते