पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५८
[कारके षष्ठी
सिद्धान्तकौमुदीसहिता


इति ' न' इति चानुवर्तते । तेन नेतव्या व्रजं गावः कृष्णेन । तत: ' कर्तरि वा' उत्क्तोऽर्थ ।

६३० । तुल्यार्थरतुलोपमाभ्यां तृतीयान्यतरस्याम् । (२-३-७२)

तुल्यार्थैयोंगे तृतीया वा स्यात्पक्षे षष्टी । तुल्यः सट्शः समा वा कृष्णस्य कृष्णेन वा । अतुलोपमाभ्यां किम् । तुला उपमा वा कृष्णस्य नास्ति ।

६३१ । चपुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः । (२-३-७३)

एतद्थैर्योगे चतुर्थी वा स्यात्पक्षे षष्ठी । आशिषि, आयुष्यं चिरजीवि तं कृष्णाय-कृष्णस्य वा भूयात् । एवं मद्रं भद्रं कुशलं निरामयं सुखं शम् अर्थ: प्रयोजवं हितं पथ्यं वा भूयात् । 'आशिषि' किम् । देवदत्त स्यायुष्यमस्ति । व्याख्यानात्सर्वत्रार्थग्रहणम् । मद्रभद्रयाः पयायत्वादन्य तरो न पठनीयः ॥

इति षष्ठी विभक्तिः ।


उक्तत्वेन प्रधानकर्मणि चरितार्थेनानेन परत्वात् बाधात् । ततः कर्तरि वेति ॥ 'कृत्यानाम् इति सूत्रप्रणयनानन्तरं कर्तरि वेति पृथक् प्रणेतव्यमित्यर्थः । उक्तोऽर्थः इति ॥ ‘कृत्यानाम् इत्यनुवर्त्य कृत्ययोगे कर्तरि षष्ठी वा स्यादिति व्याख्येयमित्यर्थः । अनुभयप्राप्तिविषये मया मम वा सेव्यो हरिरित्यादाविदमवतिष्ठते । अथोपपदविभक्तयः । तुल्यार्थैः ॥ शेषष्ठयां नित्यं प्राप्तायां तृतीयाविकल्पोऽयम् । तुल्यैरिति बहुवचनादेव पर्यायग्रहणे सिद्धे अर्थग्रहणं पदान्तर निरपेक्षश्चेत्तुल्यार्थस्तेषां ग्रहणार्थम् । तेन गौरिव गवय इत्यादौ नेत्याहुः । अतुलोपमाभ्या मिति पर्युदासात् अनव्यययोग एवेदमित्यन्ये । चतुर्थी च ॥ एतदर्थैरिति ॥ आयुष्य मद्र, भद्र, कुशल, सुख, अर्थ,हित, एतदर्थकैरित्यर्थः । पक्षे षष्ठीति ॥ चकारेण तत्स मुचयावगमादिति भावः । आयुष्यपर्यायश्चिरञ्जीवितामिति । कुशलं निरामयमिति मद्रभद्रपर्यायौ । शमिति सुखपर्यायः। प्रयोजनमित्यर्थपर्यायः । पथ्यमिति हितपर्यायः । ‘हितयोगे च' इति नित्य चतुर्थी तु नाशिषि ज्ञेया। ननु “स्वं रूपम्’ इति परिभाषया आयुष्यादिशब्दानामेव ग्रहणमुचित मित्यत आह । व्याख्यानादिति ॥ ननु मद्रभद्रयोः पृथग्ग्रहणादेतदर्थैरिति व्याख्यान मयुक्तमित्यत आह । मद्रभद्रयोरिति ॥

इति षष्ठी विभक्तिः ।