अथ सप्तमी विभक्तिः।
६३२ । आधारोऽधिकरणम् । (१-४-४५)
कर्तृकर्मद्वारा तन्निष्टक्रियाया आधारः कारकमधिकरणसंज्ञः स्यान् ।
६३३ । सप्तम्यधिकरणे च । (२-३-३६)
अधिकरणे सप्तमी स्यात्, चकारादूरान्तिकार्थेभ्यः । औपश्लेषिको वैषयिकोऽभिव्यापकश्रेत्याधारस्त्रिधा । कटे आास्ते । स्थाल्यां पचति । मोक्षे इच्छास्तिं । सर्वस्मिन्नात्मास्ति । वनस्य दूरे अन्तिके वा । दूरान्ति कार्थेभ्यः-(सू ६०५) इति विभक्तित्रयेण सह चतस्रोऽत्र विभक्तयः
अथ सप्तमी विभक्तिः—आधारोऽधिकरणम् ॥ कारके इत्यधिकृतं प्रथमान्त तया विपरिणम्यते, तच्च आधारस्य विशेषणम्, आधारः कारकमधिकरणमिति लभ्यते । क्रियान्वयि कारकम् । एवञ्च कस्याधार इत्याकाङ्क्षायाम् उपस्थितत्वात् क्रियाया इति लभ्यते । क्रिया च कर्तृकर्मगता विवक्षिता । तदाधारत्वञ्च न साक्षात्, किन्तु कर्तृकर्मद्वारैव । व्याख्या नात् । तदाह । कर्तृकर्मद्वारेति ॥ तन्निष्ठेति कर्तृकर्मनिष्ठत्यर्थः । सप्तम्यधिकरणे च ॥ चकारादूरेति ॥ “दूरान्तिकार्थेभ्यो द्वितीया च' इति पूर्वसूत्रात् दूरान्तिकार्थेभ्य इत्यस्य चकारेणानुकर्षणादिति भावः । औपञ्श्लेषिक इति ॥ उपश्लेषस्संयोगादिसम्बन्धः । तत्प्रयोज्य आधारः प्रथम इत्यर्थः । वैषयिक इति ॥ विषयतासम्बन्धकृत आधारः द्वितीय इत्यर्थः । अभिव्यापक इति । सकलावयवव्याप्तिकृत आधारस्तृतीय इत्यर्थः । तत्र औपश्लेषिकं कर्तृद्वारकमाधारमुदाहरति । कटे आस्ते इति ॥ देवदत्त इति शेषः । तत्र साक्षाद्देवदत्ता त्मककर्तृगतामासनक्रियां प्रति कटस्य संयोगसम्बन्धं पुरस्कृत्य देवदत्तद्वारा तदाधारत्वादधिकरण त्वम् । अथ कर्मद्वारकमौपश्लेषिकमाधारमुदाहरति । स्थाल्यां पचतीति ॥ तण्डुलानिति शेषः । अत्र साक्षात्तण्डुलात्मककर्मगतां पाकक्रियां प्रति स्थाल्यास्संयोगसम्बन्धं पुरस्कृत्य तण्डुलद्वारा आधारत्वादधिकरणत्वम् । रूपे रूपत्वमस्ति, शरीरे चेष्टास्तीत्यादौ समवायेन औप श्लेषिकमाधारत्वमित्यादि ज्ञेयम् । अथ वैषयिकमाधारमुदाहरति । मोक्षे इच्छास्तीति अत्र कर्तृभूतेच्छागतां सत्ताक्रियां प्रति मोक्षस्य विषयतासम्बन्धपुरस्कारेण इच्छाधिरत्वादधि करणत्वम् । अथाभिव्यापकमाधारमुदाहरति । सर्वस्मिन्नात्मास्तीति । अत्र आत्मरूप कर्तृगतां सत्ताक्रियां प्रति कृत्स्नव्यातिं पुरस्कृत्य आत्मद्वारा सत्ताधारत्वात्सर्वस्याधिकरणत्वम् । अथ चकारानुकृष्टदूरान्तिकार्थेभ्यः उदाहरति । वनस्य दूरे अन्तिके वेति ॥ दूरमन्तिक मित्यर्थः । प्रातिपदिकार्थमात्रे विधिरयम् । विभक्तित्रयेणेति ॥ द्वितीयापञ्चमीतृतीयाभि रित्यर्थः। वस्तुतस्तु उप समीपे श्लेषः सम्बन्धः तत्कृतमौपश्लेषिकमिति व्युत्पत्त्या सामीपिकमेवा धारत्वमौपश्लेषिकम् । “अत एव अधिकरणन्नाम त्रिप्रकारम् । व्यापकमौपश्लेषिकं वैषयिकमिति